________________
३२४
192
196
200
भूषवलक्षणम् पत्रद्वयसमायुक्तं चायसेनैव कारयेत् । दार्विके चायसे वापि तुला(ला) युक्त्या च कारयेत् ॥६॥ जिह्वां च तोरणं वापि सर्वथा लोहजं भवेत् । बन्धयेन्नि(द)र्गलैः पत्रः(।) द्विदण्डे चोभयाप्रकौ ॥१७॥ तुलालक्ष्य(क्षण)मिदं प्रोक्तं शेषं युक्त्या प्रयोजयेत् । भूपानां दक्षिणे हस्ते मध्यमालक्ष्यमुच्यते ॥८॥ पत्रतुल्यं(ङ्ग) युगाडल्यं पीठे तुङ्गद्वयाङ्गुलम् । नालं द्वादशमात्रं स्यादायाममिति कथ्यते ॥ ६६ ॥ पत्रतारं द्वयाङ्गल्यं पीठतारं तथैव च । पत्रपृष्ठ(पीठ) तदर्भाशं वक्रतुङ्ग तु निश्चितम् ॥ १० ॥ नालतारा(रम)र्धमात्रं स्यात्पीठयुक्तं तुला(नलं) धनम् । मूलं तु सूक्ष्मसूचिवत्कुर्यात्तद्विचक्षणः ॥ १०१ ॥ मूले च त्रित्रिमात्रे तु नालतारार्ध विस्तृतम् । तदूर्वे च त्रिमात्रे तु त्रिधा विस्तृतं भवेत् ॥ १०२ ॥ सुवृत्त(त) नालदेशे तु पत्रमूले तु कर्णयुक् । स्निग्धं च पुलकैर्युक्तं हेमरेखैः(खाभिः) स्खलङ्कतम् ॥ १०३ ॥ पत्रे तु ब्रह्मदैवत्य (तं) पीठे तु विष्णुदैवतम् । नाले तु रुद्रदैवत्यं(तं) सूक्ष्म (कर्णे) चैव सरस्वती ।। १०४ ॥ एवं तु चाधिदैवत्य(d) कर्णमेवं प्रकल्पयेत् । सर्वेषामपि नील(ड) च चलं वाप्यचलं भवेत् ॥ १०५ ॥ एकहस्तं समारभ्य त्रित्र्यङ्गुलविवर्धनात् । साष्टाष्टपञ्चमात्रान्तं कन्यसादि त्रयं त्रयम् ॥ १०६ ॥ मृगनामिबिलाडस्य पसरस्य विशालकम् । तदर्घ च त्रिपादं च तत्समं पादमा(म)धिकम् ॥ १०७ ॥ प्रत्यर्धे[को]न [च] तस्यैव शान्तिकादिशरांशकम् । हो(भी)मात्प्रस्तरान्तं वा मस्तकान्तं शिखान्तकम् ॥ १०८॥ नवाजुलं समारभ्य द्विद्मङ्गुलविवर्धनात् ।। त्रयोविंशाङ्गुलान्तं स्यात्कन्यसादि वयं त्रयम् ॥ १०६ ॥
41
204
208
212
216