________________
५० ]
भूषण लगाम्
अथवाङ्घ्रिकवारिं (रि) स्यादूर्ध्वे च कुड्मलान्वितम् ।
दण्ड विस्तार मानेन दण्डद्वित्रयमेव वा ॥ ४० ॥ चतुर्दण्डं पञ्चषट्दण्डं पद्मविस्तारमेव च । फलका च त्रिदण्डं स्यादथवा पङ्कजेोक्तवत् ॥ ४१ ॥ दण्डमध्ये तु ते सर्वे युग्मा चाङ्घ्रिकवारिका । चतुरश्रं वा तदष्टानं वृत्तं वा चलदण्डकम् ॥ ४२ ॥ स्थिरदण्डविशाले तु मानाङ्गुलवशान्नयेत् । त्रिचतुर्मात्रमारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥ ४३ ॥ एकोनविंशत्यङ्गुल्या विंशत्यङ्गुलकान्तकम् ।
एवं नवविधं प्रोक्तं स्थिरदण्डविशालकम् ॥ ४४ ॥ लोहजैर्दारुजैर्वापि शैले वाथ प्रकल्पयेत् । पुरोक्तदण्डतुङ्गे तु त्रिचतुष्पञ्चषडंश के ॥ ४५ ॥ एकैकं चाधिकं युक्तं दण्डस्य घात (घन ) मानकम् । मूले च वेदिकां कुर्यात्पद्मोपपीठमेव वा ॥ ४६ ॥ फलकादिभूषणं वापि मञ्जु (ऋजु ) दण्डमथापि वा । मूले च चतुरश्रं स्यादष्टांशं वा सुवृत्तकम् ॥ ४७ ॥ ऊर्ध्वे चाक्तवश्चाग्रे चामूलाप्रचयं तरिम् (क्रमात् ) । युक्त्योपर्युक्तवन्माने कुर्यादूर्ध्वे तु दण्डकम् ॥ ४८ ॥ व्यजनदण्डमानस्य लक्षणं वक्ष्यतेऽधुना । यत्तदङ्गुलमानेन षट्सप्ताङ्गुलमारभेत् ॥ ४६ ॥ द्वादशैकाङ्गुलान्तं स्यान्मूलदण्डायतं भवेत् । एकं वाथ द्वयाङ्गुलं यथा संपरिकीर्तितम् ॥ इत्युक्त (क्तं) मूलममं च मध्ये किश्वित्कृशान्वितम् । वृत्ताकारं च दण्डं स्यादग्रे च ह (हा ) रितान्वितम् ॥ ५१ ॥ मूले च कुड्मलाकारं किश्चित्पद्मासनान्वितम् । तदूर्ध्वे भ्रमदण्डं स्यान्मूलदण्डायतं भवेत् ॥ ५२ ॥ विस्तारैकत्रिभागैकं चतुर्भागविशालकम् । तदग्रे हरिता (त) पद्मं किञ्चित्कुड्मलसंयुतम् ॥ ५३ ॥
० ॥
३२५
80
84
88
92
96
100
104