________________
इ२४
मानसार
चातकस्य चकोरस्य मरालस्य च पजरम् । पारावतस्य नीडं च नीलकण्ठस्य पञ्जरम् ॥ २६ ॥ तित्तिरेश्च कुलायं च कन्दु(खज)रीय(ट)स्य पचरम् । कुक्कुटस्य कुस्खायं च नकुलस्यापि पचरम् ॥ २७ ॥ चटकस्य गोधारस्य पञ्जरं व्याघ्रपचरम् । सर्वेषां लक्षणं वक्ष्ये विधिना संक्षेपतः क्रमात् ॥ २८ ॥ द्वादशाडुलमारभ्य ए(चै)कादशाङ्गुलं भवेत् । प्रष्टसप्ताङ्गुलोपेतं विंशत्यडुलकान्तकम् ॥ २६ ॥ नवधा दीपदण्डोच्चं द्विद्मङ्गुलविवर्धनात् । अथवा हस्तमानेन दीपदण्डोदयं क्रमात् ॥ ३० ॥ एकहस्तं समारभ्य त्रिव्यङ्गलविवर्धनात् । द्विकरान्तं तथात्सेधं तथा हस्तेन वर्धयेत् ॥ ३१ ।। नवहस्तावसानं स्यात्कन्यसादि त्रयं त्रयम् । केचित्पुरता(तस्तु)दीपदण्डं हऱ्यावशोदयम् ॥ ३२ ॥ प्रस्तरं वेदिकान्तं च प्रोवान्तं दण्डकान्तकम् ।। नासिकान्तं फलि(ल)कान्तं पद्मान्तं तद्घटान्तकम् ॥ ३३ ॥ स्तूपिकापावसानं स्यात्कन्यसादि त्रयं त्रयम् । एकद्मॉलमारभ्य विद्महुलविवर्धनात् ॥ ३४ ॥ अथवार्धाजुलैर्वृध्यात्पञ्चषडङ्गुलान्तकम् । मात्राइलोनमेले नै)वोक्तं [च] दीपदण्डविशालकम् ॥ ३५ ॥ एवं तु दारुजैः कुर्याश्लोहजेतु(न) विशेषतः । एकाङ्गुलं समारभ्य धार्धार्धाङ्गलवर्धनात् ॥ ३६॥ पञ्चाङ्गलावसानं स्यात्कन्यसादि त्रयं त्रयम् । फलकादण्डकमिति प्रोक्तं विस्तारं दण्डमूल के ॥ ३७ ।। त्रिचतुष्पञ्चषट्सप्तसाष्टभाग(गे) विभाजिते ।। सत्तदेकांशहीनं स्याच्छेषदण्डाप्रविस्तृतम् ॥ ३८ ॥ चित्रपाण्यप्रवद् दण्डं मूले पद्मासनान्वितम् ।। अग्रे च फलकान्तं च ताटिकाविभूषितम् ॥ ३६ ॥