________________
भूषणलक्षणम् बाहुमूले तु वलयं दाम कक्षावसानकम् । बाहुमा(मू)लावलम्ब स्यात्केयूरकटकान्वितम् ॥१२॥ बाह्वायामस्य मध्ये तु केयूरकटकान्वितम् । तदूर्ध्वं पूरिमं कुर्यात्कणे मकरभूषणम् ॥ १३॥ कटिसूत्रं तु संयुक्तं कटिप्रस्थ(प्रान्ते) सपट्टिका । मेहान्तं पट्टिकान्तं स्यात्तन्मध्ये सिंहवक्रवत् ॥१४॥ अथवा रत्नबन्धं स्यात्स्यादामेढ़ विनिर्गमम् । नियं(नील) च पञ्चपार्श्वे तु मध्ये दामचखान्वितम् ॥१५॥ पीताम्बरदुकूलं च नलकान्तप्रलम्बनम् । अथवा जानुपर्यन्तं धर्मचीरं च वाससम् ॥ १६ ॥ जवादिवलयोपेतं पादजालादिभूषणम् । विहाय तर्जनी सर्वैर(र्वेष्व)जुलैर(लेष्व)ङ्गुलीयकम् ॥१७॥ ऊर्ध्वकाये च हारादि पार्श्वयोर्वात (तु)लम्बनम् । मध्ये दाम(म) च लम्ब(म्बित) स्याच्छन्नवीरमिति स्मृतम् ॥१८॥ इत्युक्तं भूषणं देवैश्व(वानां च)क्रवर्तेरि(न इ)ति स्मृतम् । चक्रवर्तिन)स्तदा विष्णोर्वनमाला विभूषित(षण)म् ॥ १६ ॥ अधिराजनरेन्द्राभ्यां(न्द्रयोः) विनासूत्रोपरिस्तनौ । अन्येषां सर्वभूपानां केयूरकटकं विना ॥ २० ॥ सर्वेषामपि देवानां गुल्फस्योपरिदेशके । भुजङ्गकटकोपेतं पादनूपुरसंयुतम् ।। २१ ॥ कर्ण विभूषणं कुर्यान्मकराङ्कितकुण्डलम् । अथवा स्वर्णताटङ्की शेषं तु पूर्ववद्भवेत् ॥ २२ ॥ प्रङ्गभूषणमित्युक्तं बहिर्भूषणमुच्यते। दीपदण्डं व्यजनं च दर्पणं चैव लक्षणम् ॥ २३ ॥ पर्णमजूषकादीनां दोलाया लक्षणं तथा । भूपानां च तुलाभारतुलालक्षवमुच्यते ॥ २४ ॥ वत्सरारम्भलेखाथै पत्रं च कर्णलक्षणम् । मृगनामिबिडालस्य शुकस्यापि च परम् ॥ २५ ॥