________________
३२६
मानसारे
अिध्यायः
108
112
116
120
एवं व्यजनदण्डं स्याद् दारुज लोहजमथवा । व्यजनं चर्मकारेणचर्म कुर्यात्तु(कृत्वा तु)योजयेत् ॥ ५४ ॥ व्यजनद्वयबहिर्दशे श्रीरूपाधैरलतम । वर्णेश्च लोहद्रव्येण लेखयेचोक्तवद् बुधः ॥ ५५ ॥ एवं तु व्यजनं प्रोक्तं दर्पणं वक्ष्यतेऽधुना। पञ्चषडडुलमारभ्य द्वियङ्गुलविवर्धनात् ॥ ५६ ॥ एकविंशाङ्गुलान्तं च द्वाविशत्यङ्गुलान्तकम् । एवं नवविध प्रोक्तं दर्पणस्य विशालकम् ॥ ५७ ॥ यवतारैकमारभ्य यवतारेण वर्धनात् । यवतारं नवान्तं स्याद् दर्पणं बहु(ह)लं भवेत् ॥ ५८ ।। दर्पणं सुवृत्तं स्यादंशरु किञ्चिदुन्नतम् । निर्मलं दर्पणं मध्ये बाह्ये रेखाभिरावृतम् ।। ५६ ॥ प्रपरे च लक्ष्मीमा(त्या)चैवल्ये(ली भि)श्च विन्यसेत् । दर्पणस्य त्रिभागैकं मूले कोलायतं तथा ॥ ६० ॥ प्रआयामं सहशान्तरं चार्ध पद्मान्तमेव हि । शेष कीलायतं कुर्यात्तत्रिभागैकविस्तृतम् ।। ६१ ॥ तन्मूलं षोडशांशं तु कीलकं तु विशालकम् । यथाफलं (लक) यथायुक्त्या दर्पणं(ण)दण्डवत्क्रमात् ॥ ६२ ॥ दर्पणाङ्कस्य कोणे तु कारयेत्कांसकारकैः । दारुजे लोहजे वापि तदण्डं कारयेत्सुधीः ॥ ६३ ॥ दर्पणस्य समं दीर्घ तत्पादाधिकमेव वा । अर्ध त्रिपादमाधिक्यं तत्समाधिकमेव च ॥ ६४ ॥ दर्पणम विशाले तु चतुर्भागैकविस्तृतम् । मूले पद्मासनैर्युक्तं चाप्रे च फलकादिभिः ॥६५॥ कुर्यात्तु शिल्पिनः(ल्पी च) प्राज्ञः सर्वालङ्कारसंयुतम् एवं तु दर्पणं प्रोक्तं वर्णज्ञानुपलक्षणम् ॥ १६ ॥ त्रिचतुर्मात्रमारभ्य द्विमङ्गलविवर्धनात् नवपश्त्यालान्तं च विंशमात्रावसामकम् ॥६७ ॥
19.4
128
132