________________
मौलिलक्षणम् चक्रवादि(यधि)राजस्य(यो) महिषीमकुटोदयम् । अन्यत्सर्व (मन्यसर्व)महिषीणां मुखायामसमं बुधैः ॥ २६ ॥ पादानं च तदर्ध वा धम्मिल्ला[ल]कादिको(द्यो)दयम् । शेष प्रागुक्तवन्मानं कुर्यात्तत्र विचक्षणः ॥ २७ ॥ शिरोनाहं त्रिभागैकं पट्टखो(स्यो)दयमेव च । एवं पट्टधर(रस्य) प्रोक्तं पट्टमेवं शिरोवृतम् ॥ २८ ॥ चतुर्भागैकपटुं स्यात्तुङ्गानां मण्डलेश्वरम्(स्य)। पट्टमेवं शिरोनाहे षड्मागे चैकभागिकम् ॥ २६ ॥ पट्टभागाख्यभूपस्य पट्टतुङ्गमथैव च। सर्वाना (र्वेषां) चेति प्रोक्तमलङ्कारमिहोच्यते ॥ ३०॥ दशपर्णेश्च हे(हे)मादिभिर्माल्यादीनां प्रकल्पयेत । पञ्चशत(तं) सहस्रं च निष्कं च द्विसहस्रकम् ॥ ३१ ॥ अथवा पञ्चशताधिक्यं निष्कान्तं द्विसहस्रकम् । कन्यस्यादुत्तमान्त स्यात्स्वर्णसंख्यात्रयोदिते ॥ ३२ ॥ प्राप्तं च मङ्गलं चैव वीरं च विजयं तथा । चतुर्विधाभिषेकस्य चक्रवर्तेश्व कथ्यते ॥ ३३ ।। तदर्ध चावरोधस्य हिरण्य(ण्यं) मकुटस्य वा । द्विसहस्रान्त तन्मुक्तादित्रयसमं तथा [चैव ॥ ३४ ॥ अधिराजस्य मकुटे स्वर्णसंख्याप्रकीर्तितम्(ता) । पञ्चशतनिष्कमारभ्य पश्चशतविवर्धनात् ॥ ३५ ॥ पचाशतसहस्रादि(न्तं) कन्यसादुत्तमान्तकम् । पट्टयुक्तं तथाबेरे भूपानां च विशेषतः ॥ ३६॥ एवं नरेन्द्रभूपस्य हेम स्यान्मकुटस्य च । चतुःशतनिष्कमादौ चतुःशतविवर्धनात् ॥ ३७॥ शतद्वादशनिष्कान्तं कन्यसादि त्रयं त्रयम् । पाकॊिकस्य शिरस्त्रस्य हेमं(म) तत्परिकीर्तितम् ॥ ३८॥ त्रिशतनिष्कमारभ्य त्रिशतनिष्कविवर्धनात् । निष्क नवशतान्तं स्यात्कन्यसादुत्तमान्तकम् ॥ ३६॥