________________
३१४
मानसारे
किरीटं सार्वभौमस्य चाधिराजस्य योग्यकम् । नरेन्द्रस्य करण्ड स्यात्पाjिकस्य शिरखकम् ॥ १२ ॥ चक्रवादिभूपस्य करण्डमकुटं तु वा । पत्रपट्ट पट्टधरो(रे) रखपट्टं च पार्पोिके ॥ १३॥ पट्टभाक(ज:) पुष्पपट्टे च चोक्तमेवं पुरातनैः । प्राहारकासपाही च(हयोः) पुष्पमाल्यं प्रकीर्तितम् ॥ १४ ॥ चक्रवर्तिमहिष्याश्च कुङ्ग(न्त)लं मकुटं भवेत् । अधिराज(जस्य) नरेन्द्रस्य महिष्याः केशबन्धनम् ॥ १५॥ पार्णिक(क)[च]पट्टधरोम(रयोर्म)ण्डलेशस्य पट्टभाक(जः)। एतेषां महिषीभ्यां(ण) च धम्मिश्चमकुटा(टमा)हृतम् ॥ १६ ॥ प्राहारकानमाहाभ्या(पां) महिण्या(पीणामोलकचूडकम् । बनायामत्रिधायामं द्वयं वा मकुटोदयम् ॥ १७ ॥ पितामहस्य रुद्रस्य पादोनद्वयमेव च । अन्यथा देवतानां च चाल(चा)पादोनमेव च ॥ १८ ॥ किारयक्षकाणां च प्र(तु चा)ध्यर्ध वा समन्तकम् । सर्वेषा(वासा)मपि शक्तीना मुखायामद्वयं भवेत् ॥ १६ ॥ केशान्तात्कृड्ड(ण्ड)लान्तं स्यात्सर्वेषां मक्कुटायतम् । मुखायामसमं मूलविस्तारं भूषणान्यपि ॥ २०॥ तदष्टांशेन हीन वा षोडशांशोनमेव वा । मकुटाप्रविशाल स्याच्छिखायाममध्यादिदेशिकम् ॥ २१ ॥ मूलतारार्धभागं वा त्रिभागेकांशमेव च ।। एवं करण्डमौल्या(ल्य)ये विस्तारं परिकीर्तितम् ॥ २२ ॥ सर्वेषां मकुटानां तु चामूलाप्रक्षयं क्रमात् । भूपा(भीमा)नां च शिरोबाहुतुल्यं तन्मकुटोदयम् ॥ २३॥ वत्तुङ्गे षोडशांश स्यान्महाराजस्य हीनकम् । तत्तुङ्गे द्वांशहीनोचं नरेन्द्रास्यस्य भूपतेः ॥ २४ ॥ अर्ध पाष्णिकभूपस्य शिरस्रोदयमीरितम् । शिरोनाहसमं दीर्घ (दैध्ये) तन्त्रिमार्ग द्विभागिकम् ॥ २५ ॥