________________
[च
भूमिका प्रत्र मानसारपुराणरित्यनन शिल्पाचार्यसम्प्रदायसूचनम्, मानसारं शास्त्रमित्यतन च अन्धसज्ञाभिधानम् । एवमन्यत्रापि, यथा--"मानसार-ऋषीणां कृतं शास्त्रं मानमारमुनिनामकमासीत " (१३६ प्र. २) "मानानां सारं संगृह्य शास्त्र संक्षेपत: क्रमात्" (२२२ पृ० १६६)। अत्रापि ग्रन्थसंज्ञव सूच्यते । "मानमारा बहुः श्रुतः” (७८.१ पृ. ५०८)अस्माच्छिल्पाचार्यसम्प्रदायस्यैव द्योतन सम्भवति । "सकलमुनिवरैर्मानसारादिमुख्यैः” (६६।२१६ पृ. ३२१)-अस्मात्तु कस्यचिन्छिल्पाचार्यस्य न तु सम्प्रदायस्य प्रतीतिर्जायते ।
एतावन्त एवास्मिन मानसारनाम्नि ग्रन्थे मानसार-शब्दस्य प्रयोगा दृश्यन्तं । एभ्योऽस्य शब्दस्य सम्पूर्णार्थोपलब्धि व सजायते ।
शिलालेखद्वयं (१), मानसर्पः नतु मानमारः इति कस्यचिन्छिल्पिनः संज्ञा समुपलभ्यते । अग्निपुराणेऽपीदृशः सन्दहमूलको मानसारस्योलखा दृश्यते-"तदूर्ध्व तु भवेद् वेदी सकण्ठा मनसारकम्” (२)-इति । अत्र 'मलसारकम्' 'मानसारकम्' चेति पाठद्वयं सम्भाव्यते ।
ख्रिष्टसप्तमशताब्दीयाचार्यदण्डिविरचितं दशकुमारचरितं प्रधानकुमारपितू राजहंसस्य प्रतिद्वन्द्वी मालववास्तव्यः कोऽपि मानसारख्या राजा पौन:पुन्यंन श्रयत (३), यथा"मगधनायको मालवेश्वरं प्रत्यग्रसंग्रामघस्मरं समुत्कटमानसारं मानसारं प्रति.. संग्रामाभिलापंण रोषध महवाविष्टो निर्ययौ।" इति । "राजहंसो मुनिमभाषत, भगवन् मानसारः प्रबलन दैवबलेन मा निर्जित्य मद्भोग्यं राज्यमनुभवति!" इति। "अवन्तिसुन्दरी नाम भानसारनन्दिनी ... नगरोपान्तरम्योद्याने विहारात्कण्ठया मनाभवमर्चयन्ती रेमे।" इति च। ___ सन्दर्भत्रय प्यत्र मानसार इति राज्ञ एव नाम न तु कस्यचिच्छिल्पिन ऋषेति ध्रुवम् । पन्थकृदाश्रयदातृराजनानापि कदाचिद् ग्रन्थाभिधानं विधीयते-यथः गुप्तवंश्यस्कन्दगुप्तनाग्नैव स्कन्दपुराणस्य समाख्यासीदिति केचिन्मन्यन्ते । हर्षचरितं तु हर्षनृपनाम्नैवेति च । पत्र खलु मानसारमन्थे मालवाधिपाभिधयास्य ग्रन्थस्य नामकरणं न कैरपि लक्षणादिप्रकारैर्निर्धारितम् । परं तु षष्ठशताब्दीयवृहत्संहिताया मानसारं प्राचीनतरं पञ्चमशताब्दीयमत्स्यपरायणस्य समसामयिकं चेति मयान्यत्र प्रदर्शितम (४)।
(१) संपग्राफी-प्रोग्रेस-रिपोर्ट- १९०१-- सं० १०७, २०९-पृ० १३०, टि० ५ ; पृ० १३०, टि०५; पृ० १७१।१७६, टि०१।
२) अग्निपुराणम्-०४२ श्लो०११७ । (३) मेरेश्वररामचन्द्रकालेकृतसंस्करणम्-१९१७ -- पृ०४, १,४३ । (४) अस्मत्कृतभारतीयशस्पशानम्-०५-पृ०१६१, १७१, १९७, १९r
(१३)