________________
108
112
116
सिंहासनलमयम् तत्समे[न] निम्नवृत्तं च कम्पं कुर्यात्तदूर्ध्वके। ग्रंशेन गलकं चोर्ध्वं चांशेन कम्पवृत्तकम् ॥ ५२ ॥ निम्नं च कम्पमर्धेन चैकांशेन कपोतकम् । तदूर्ध्वं चैकभागे तु चतुर्भोग(ग) विभाजिते ॥ ५३ ॥ मालिङ्गान्तरितं चोर्चे प्रतिवाद(ज)नमुच्यते । युक्त्या च वृत्तकम्पं स्यात्सर्वालङ्कारसंयुतम् ॥ ५४ ॥ व्यालादिपत्रपुष्पैश्च कर्णैश्च मकरद्वयम् । कपोते नासिकोपेतं किम्बरीवक्रसंयुतम् ॥ ५५ ॥ चतुष्कर्णे च युक्त्या च कुर्याद् व(त् प)लवपत्रकम् । मध्ये तत्पत्रमलत्य सर्वालङ्कारसंयुतम् ।। ५६ ॥ गले च नाटकैर्युक्तं यक्षविद्याधरादिभिः । वृत्तकुम्भ च पट्टे वा क(ना)टकादि(दिभि)रलङ्कतैः(तम्) ॥ ५७ ॥ पनाकारं तु सर्वेषां केसरादिदलान्वितम् । यथेष्टमशं गलतुङ्गं स्यान्नानापट्टैरलङ्कतम् ॥ ५८ ॥ एतत्पद्मासनं प्रोक्तं शिवविष्ण्वासनं भवेत् । तदेव सोपपीठं स्यात्पद्मकेसरमीरितम् ॥ ५६ ।। उपपीठे क्षुद्रकम्पानां वृत्तकम्पाश्रकम्पयुक् । निम्नानि मौक्तिकोपेतं(तानि) सर्वाङ्गं रनभूषितम् ॥ ६ ॥ उपपीठगले सर्वे नाटकाभिरलङ्कतम् । कोकिलैः क्षुद्रशालैश्च पखरैस्तोरणान्वितम् ।। ६१ ॥ नासिकाकुम्भपादैश्च नासिकापखरान्वितम् । सर्वालङ्कारसंयुक्तं पद्मचित्रादिशोभितम् ॥ १२ ॥ देवानां चक्रवर्ती(र्तिना) सर्वेषामासनान्वितम् । एकविंशांशक(क)तुङ्गे जन्मतुझे(मे)कभागिकम् ॥ १३ ॥ पादांशं क्षेपणं चैव सत्रिपादांशमम्बुजम् । तदूचे चैकभागे तु तन्त्रिमागं विभाजिते ।। ६४ ॥ एकांशं निग्नकं प्रोक्तं चै()काशं वृत्तकम्पकम् । तदूचे (चां)शेन कम्पं स्यात्पञ्चांश वप्रतुङ्गकम् ॥६५॥
120
124
128
132