________________
२६८
मानसारे
विस्तारं च तथा प्रोक्तं नित्योत्सवस्य चासने ।
आयामं पूर्ववत्कुर्याद् द्विगुणान्त यथाक्रमम् ॥ १२ ॥ नवपङ्क्त्यडला (लमा )रभ्य डिलविवर्धनात् । पथ्वत्रिंशाङलान्तं स्याद्विस्तारं परिकीर्तितम् ॥ १३ ॥ महोत्सवे चासनं ह्येवं कन्यसादि त्र्यं त्रयम् । विस्तारं (र) द्विगुणायामं पादोनद्विगुणं तु वा ॥ १४ ॥ विस्तारार्घायतं वापि पादाभ्यन्तरमानकम् । पादबाह्यावसानं स्यात्पादमध्यावसानकम् ॥ १५ ॥ विस्तारे चायते कुर्यान्मानमेवं तु सर्वतः । एवं तु देवतानां च महीपानां च वक्ष्यते ॥ १६ ॥ पञ्चा(च) दशाङ्गुखा (लमा )रभ्यं द्विमङ्गुतविवर्धनात् । सैक त्रिशाङ्गुलान्तं स्यात्प्रथमासनमेव च ॥ १७ ॥ विस्तारं नवधा प्रोक्तं कन्यसादि त्र्यं त्रयम् । तस्मादर्धाधिकं वापि त्रिपादाधिकमेव वा ॥ १८ ॥ तत्समेना (मं वा )धिकं वापि त्रिविधं चायतं तथा । सप्तदशाङ्गुला (लमा ) दास्याद् द्विद्य इलविवर्धनात् ॥ १६ ॥ पञ्चत्रिंशतिमात्रान्तं नवतारं तु पूर्ववत् ।
वीरासनमिति प्रोक्तं दोर्घ(दैर्घ्य ) प्रागुक्तत्रन्नयेत् ॥ २० ॥ एकविशाङ्गुलमारभ्य द्विद्व्यङ्गुलविवर्धनात् ।
सप्तत्रिंशाङ्गुलान्तं स्याद्विजयासनं विस्मृतम् ॥ २१ ॥ नवभेदमिति प्रोक्तं दीर्घ (दैर्घ्य ) पूर्ववदाचरेत् । विस्तारमायतं प्रोक्तं तत्तत्तुङ्गमिहोच्यते ।। २२ ।। एकाङ्गुतं समारभ्य चैकाङ्गुलविवर्धनात् । नवाङ्गुलान्तमुत्सेधं कन्यसादि त्र्यं त्रयम् ।। २३ ।। प्रात्मनश्वासनात्तुङ्गं तद्विस्तारवशात्क्रमात् ।
वन्ह्यङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥ २४ ॥ नन्दक्यान्तं स्यान्नित्यार्चनासनोदयम् । एवं नवविधं प्रोक्तं विस्तारस्य वसा ( शान) न्यसेत् ।। २५ ।।
[अध्यायः
24
28
32
36
40
44
48