________________
सिंहासनलक्षणम् देवानां चक्रवादिनृपाला(नामा)सनयोग्यकम् । सिहासनस्य मानं च लक्षणं वक्ष्यतेऽधुना ।।१।। प्रथमाभिषेकयोग्यं स्यात्प्रथमासनमेव च । मङ्गलाख्याभिषेकस्य मङ्गलासनमीरितम् ॥२॥ वीराख्या[त्व]भिषेकस्य [च] वीरासनमुदीरितम् । विजयाख्यस्याभिषेकस्य विजयासनमीरितम् ॥ ३॥ एवं चतुर्विधं प्रोक्तं भूपानामासनं भवेत् । नित्यार्चनासनं चैव नित्योत्सवासनमीरितम् ॥४॥ विशेषाख्यार्चनार्थाय विशेषाख्या(महोत्सवा)र्चनासनम् । चतुर्विधात्मनं प्रोक्तं देवानामपि योग्यकम् ॥ ५॥ प्रादौ पद्मासनं प्रोक्तं द्वितीयं पद्मकेसरम् । तृतीयं पद्मभद्रं स्याछोभद्रं स्याश्चतुर्थकम् ॥६॥ पञ्चमं श्रीविशालं स्यात्षष्ठं श्रीबद्ध(न्ध)मेव च । सप्तमं श्रीमुखं चैव भद्रासनं तु चाष्टकम् ॥७॥ नवमं पगं च भद्रं स्याद् दशमं पादबन्धकम् । मासनानि(नां) तु चैतानि(नां) नामानि कथितानि वै ॥८॥ प्रत्रोक्तमा(क्तानामा)सनानां च सर्वेषां मानमुच्यते । सप्ताकुलं समारभ्य द्विमङ्गल विवर्धनात् ।। ६॥ सप्तविंशानुलान्तं च विस्तारं नवधा भवेत् । परार्थ यज[मा]नार्थ चासनायाम पूर्ववत् ॥ १० ॥ पञ्चादशाङ्गुला(लमा)रभ्य द्विद्मङ्गुलविवर्धनात् । एकत्रिंशाकुलान्त स्यात्कन्यसादि त्रयं त्रयम् ॥ ११ ॥
37