________________
२६६
मानसारे
[अध्यायः ४४ विस्तारदीर्घचरणानि विभूषणं च
युक्तं विधाय कुरुते त्वथ शिल्पिनोक्तम् । पर्यकोपरि नयनं प्रकुर्वन् (नान्दोले)
80 पुत्रं(त्रस्य) चायुरपि हानिः घ(ध)नक्षयं च (यश्च) ॥४१॥ मञ्चस्य लक्षणं सपट्टिकपादकादीन्
सर्वाङ्गमपि केसरीभूतपादम् । शास्त्रोक्तलक्षणवशात्कुरुते तु सर्वम्
सम्पत्सुखं च लभतेऽप्यथ भुक्तिमुक्तीः ॥ ४२ ॥
84
इति मानसारे वास्तुशास्त्रे शयनविधानं नाम चतुश्चत्वारिंशोऽध्यायः ॥