________________
४४]
शयनविधानम् दन्तं वा दारुजं वापि क्षुद्रवेद्यादि कुदम् इम)लैः । षण्णवार्काकुलं चैव त्रिविधं पादतुङ्गकम् ॥ २६ ॥ उत्सेधं च(धस्य) समं तारं त्रिपादं वार्धमेव वा। मूलतारं(र)शरांशे तु त्रयांशं चाप्रविस्तृतम् ॥ २७ ॥ तदुत्सेधं तु नवांशं स्याजन्मनो(न उ) शिवांशकम् । पतुङ्ग द्विभागं स्यात्कोचमम्बरांशकम् ॥२८॥ कुम्भमेकेन कर्तव्यं कन्धरं च द्विभागिकम् । साशं चोर्ध्वपत्रं स्यादींशं वाजनं भवेत् ॥२६॥ कुम्भपादमिति प्रोक्तं तस्मादुचं प्रवेशनम् । वदेव हरिकाकर्ण सर्वाङ्ग पद्मवाजनम् ॥ ३०॥ वापादमिति प्रोक्तं युक्त्या कुर्यान्मनोहरम् । अथवा मध्यकर्णादौ चोर्ध्वादी पनवाजनम् ॥ ३१ ॥ पद्मपादमिति प्रोक्तं सर्वालङ्कारसंयुतम् । चतुःषट्पादयुक्तं वा देवानां च द्विजातीनाम् ॥ ३२॥ देवानां भूतसिंह वा पादमध्ये प्रयोजयेत् । नृपाणां सिंहपादं स्यात् शे(च्छे)षाणां पूर्ववद् भवेत् ॥ ३३ ॥ सर्वालङ्कारसंयुक्तं शेषं युक्त्या प्रयोजयेत् । प्रयष्कीलेन पादानां मध्ये रन्धं प्रयोजयेत् ॥ ३४ ॥ तदूधै पट्टिका न्यस्य कीलाने च कवन्धनम् । चतुर्भिः शृङ्खलायुक्तमान्दोलं चैकतो(त उ)परि ॥ ३५ ॥ देवभूसुरभूपानामन्येषां शयनार्थकम् । वकुलं चाशि(श्वि)नीपुत्रं द्राक्षारक्तं च चन्दनम् ॥ ३६॥ निम्बं च चन्दनं चैव चापशाखः शमी तथा । एवं तु शयनादीनामासनानां च दारुभिः(रूणि)॥३७॥ दन्तं वै सीरिणी चैव तिन्दुकं विरलं तथा । शाकं च सर्वपादानां वृक्षमे(श्चे)वमुदीरितम् ॥ ३८॥ मन्यानि स्निग्धसर्वैश्व(वाणि) यथालामेन संग्रहम् ॥४०॥