________________
२६४
मानसारे
कुखराक्षमलक्षं वा पत्रपुष्पाद्यलङ्कृतम् । क्षुद्रक्षेपणसंकीर्ण क्षुद्रनानाघिसंयुतम् ॥ १२ ॥ बहुपादश्रेणियुक्तमधिष्ठा[ना]ङ्गक्रियान्वितम् । एवं तु बालपर्यडू सर्वालङ्कारसंयुतम् ॥ १३ ।। एकविंशाङ्गुलमारभ्य द्विद्महुलविवर्धनात् । सप्तत्रिंशाङ्गुलान्तं स्यात्पर्यङ्कस्य विशालता ।। १४ ।। कन्यसादुत्तमान्तं स्यादनिकान्तरमेव च । एवं तु मानुषाणां च देवानां च विशेषतः ॥ १५ ।। पाद(द) बाह्यावसानं स्याद्विस्तारायाम मानयत् । देवानां च द्विजातीनां विस्तारं(र)द्विगुणा(णमा)यतम् ॥ १६ ॥ विशाले तु गुणांशं वा मंशाधिकायतं तथा । तस्माद्धोनाधिकं चैतत्सर्वदोषसमुदभवम् ।। १७ ।। त्रिचतुष्पञ्चषट्सप्ताष्टनन्ददशाकुलम् । एकादशालान्तं च नवभेदमुदीरितम् ॥ १८ ॥ कन्यसादुत्तमान्तं स्यात्पट्टिकाविस्तृतं भवेत् । विस्तारार्ध तदुत्सेधं परित: पट्टिका भवेत् ॥ १६ ॥ वेदाश्रायतं सर्व [तु] पर्यङ्कमिति कथ्यते । षडङ्गायादिसर्वेषां विस्तारे परिकल्पयेत् ॥२०॥ परितः पट्टिका बाह्ये वृत्तवेत्रादिमण्डितम् । अधिष्ठानोपपीठं यत्कुर्याद्वै पट्टिकोन्नतम् ॥ २१ ॥ श्रीवन्धं कुट्टिमं कुर्याद् देवभूसुरभूपतेः । पादबन्धमधिष्ठानं सर्वजात्याकिं भवेत् ॥ २२ ॥ प्रतिभद्रोपपीठं स्याद् भूसुरसुरभूपतेः । वेदिभद्रोपपीठं स्याद्वैश्यशूद्रस्य(द्रयोः) योग्यकम् ॥ २३ ॥ उपपीठमधिष्ठानं नाटकाचादिनावृतम् । देवानां देवतारूपं मानुषाणां च मानवम् ॥ २४ ॥ देवानां सर्वरूपं स्यान्मानुषस्योक्तवद् भवेत् । पद्मपत्रादिचित्रैश्च सर्वालङ्कारसंयुतम् ॥ २५ ॥