________________
शयनविधानम् देवानां च द्विजातीनां वर्णानां शयनार्थकम् । योग्यक(क)पर्यस्य लक्षणं वक्ष्यतेऽधुना ॥१॥ एकादशाङ्गुलमारभ्य द्विगुलविवर्धनात् । पञ्चविंशाङ्गुलान्तं स्याद्वालपर्यविस्तृतम् ॥२॥ एवं चाष्टविधं प्रोक्तं बालानां सर्वजाति(ती)नाम् । तदर्ध च त्रिपादं च तत्समाधिकमायतम् ॥ ३ ॥ विस्तारार्ध त्रिपादं च परितो वातायनोदयम् । तद्विस्तारसमं वापि त्रिपादं पादोदयं भवे(स्या)त् ॥ ४ ॥ त्रिचतुष्पञ्चाङ्गुलं वापि पादविस्तारमेव च । चतुष्पादसमायुक्तं पादाने चक्रसंयुतम् ॥ ५॥ पादतारसमं चक्र(क)विस्तारं परिकीर्तितम् ।। अधैंकद्मङ्गलं वापि धनं युक्त्या प्रयोजयेत् ॥ ६ ॥ पादाप्रे सान्तरालं स्यात्कुत्तिर्यक् च यन्त्रकम् । द्विमानं च त्रिमात्र वा पर्यy(क)पट्टिकोदयम् ॥ ७ ॥ तवयं विस्तृतं चैव चागं वामा(पादा)प्रकणेयुक् । परितः पट्टिकामध्ये परितः छिद्रं योजयेत् ॥८॥ कार्पासं रज्जु वेणुं च तालं च शणवल्कलैः । पट्टिकाश्च त(को)योर्मध्ये दीर्घदीर्घ तु योजयेत् ।। ६ ॥ पट्टिका परितो बाद्ये वृत्तकं परिकल्पयेत् । एकं वाथ द्वयं वापि क्षेपणं बहुधान्वितम् ॥१०॥ वृत्ताकृतीष्टपादानां युच्या वर्णन लेपयेत् । गवाक्षाकारं युक्त्या च पट्टिकोचे समन्ततः ॥ ११ ॥