________________
रथलक्षणम् चतुर्थे पञ्चधा प्रोक्तं पूर्ववद् वर्धयेत्क्रमात् । त्रिमात्राधिकहस्तादी त्रयस्त्रिं(नवत्रिं)शालान्तकम् ॥३६॥ कुर्यात्पञ्चविधं प्रोक्तं पञ्चधामतलोन्नतम् । पादाधिक्यं तु हस्तादौ सत्रिपादकरान्तकम् ॥४०॥ एवं तु षट्तलं प्रोक्तं पञ्चधा चोच्छ्रयं भवेत् । पादोनत्रिवितम्त्यादौ त्रिव्यङ्गुलविवर्धनात् ॥ ४१ ॥ त्रिपादस्त्रि(त्रि)वितस्त्यान्तं सप्तान्ते पञ्चधोदयम् । त्रिवितस्ति(स्ति) समारभ्य त्रित्रिमात्रविवर्धनात् ॥ ४२ ॥ द्विहस्ता(स्तान्तम)ष्टतलोपञ्च(५) पञ्चधायमिति स्मृतम् । सपादत्रिवितस्त्यादौ त्रित्रिमात्रविवर्धनात् ॥४३॥ [स]पादयुगवितस्त्यन्तं नवतले [तु] शिरो(खा)दयम् । अधश्चैकवितस्त्यादि द्विवङ्गुलविवर्धनात् ॥४४॥ अष्टविंशाइलोत्सेधं चैकादिनवान्तकम् । वितस्त्येकं समारभ्य ए(चै)कैकाङ्गुलवर्धनात् ॥ ४५ ॥ मूलादपावसानं स्याद् युक्त्या युग्मदशात्(') न्यसेत् । चतुर्विशाङ्गुलान्तं च पञ्चविंशाङ्गखान्तकम् ॥ ४६॥ प्रत्येकं तु तलानां तु (तू)र्श्वभूमो(मेर)धिकोनतम् । तलानामपि सर्वेषां कुट्टिमं तत्प्रकल्पयेत ॥४७॥ तदधिष्ठानमाने तु चोक्तमानेन पूर्वके। सोपपीठमधिष्ठानं केवलं वा मसूरकम् ॥४८॥ उपपीठस्य मानं तत्त्यवाधिष्ठानमेव च । यथाधिष्ठानगण्ये तु कुर्यात्(द) गण्या(कर्णा)धिकोमटम् ॥ ४६॥ सर्वेषां देवतारूपं कुर्यात्सर्व विचक्षणः । रथाः सर्वे समाश्राः स्युर्भद्रयुक्तम्(क्ताः) प्रथापि वा ॥५०॥ वितस्त्येकं समारभ्य त्रित्रिमात्रविवर्धनात् । त्रिवितस्त्यन्तं भद्रायां निर्गमं परिकल्पयेत् ॥५१ ।। रथाधारे त्रिभागैकं चतुर्भागत्रिभागिकम् । पञ्चभागं त्रिभागं वा विस्तारस्यार्धमेव वा ॥५२॥
36