________________
२८८
[अध्यायः
मानसारे वस्याधः कर्णनं कुर्यादक्षोत्सेधार्धमेव च । तत्तद्देशे तु छिद्रं स्यादतभारे रथान्तकम् ॥ २६ ।। छिद्रे प्रवेशयत्कीलं युक्त्यायपट्ट योजितम् । उपाधाराप्रपृष्ठे तु पट्टिकान्तं प्रयोजयेत् ॥२७॥ रथाधारोपरिदेशे चोपपीठं समं तथा । भारोत्सेधसमं वापि द्विगुणं त्रिगुणं तथा ॥२८॥ सर्वालङ्कारसंयुक्तं चोपपीठा(ठमु)क्तवद् भवेत् । तदूर्ध्वं प्रस्तराकारमुत्तरादेक्रियान्वितम् ॥२६॥ हरिकरिमकररूपैः पत्रचित्रादिसर्वैः
परिकरं तु युगानां नाटकैर्भूतयः । रसिकरफणिकास्ते(कैस्तु) तारणैः क्षुद्रपादैः
कृतमथ करिकणे सिकाभूषणाव्यम् ।। ३०॥ कुर्याद्युक्त्या च शोभार्थ युक्त्यास्त्वो विना रथम् । रथाधारा(रमु)पर्युक्तं च रथमानमि होच्यते ॥ ३१ ॥ त्रिभिर्वेद वितस्त्यादी षट्पडइलवर्धनात् । पञ्चसार्धकरं पञ्चहस्तान्तं विस्तृतं भवेत् ॥ ३२ ॥ ऊर्ध्वं चान्तस्थले च दशधा परिकीर्तितम् । तस्मादेकवितस्तयादा षट्पडइलवर्धनात् ॥३३॥ सपादद्विकरान्तं स्यादष्टधा निर्गमं भवेत् । एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टनवांश(वान्त)कम् ॥ ३४ ॥ एवं युक्त्या तलं कुर्याद् मूलादपावसानकम् । वितस्त्येकं समारभ्य क्रियङ्कलविवर्धनात् ॥ ३५॥ एकहस्तावसानं स्यात् एकादश(पञ्चधा च) शिखोन्नतम् । पञ्चदशाडुला(श्चाङ्गलं समा)रभ्य त्रित्र्यदलविवर्धनात् ।। ३६ ॥ सप्ता(त)दशालान्तं स्यात्त(द् द्वि)तीये तु शिखोन्नतम् । वितस्त्येकं समारभ्य पादाधिककरान्तकम् ॥ ३७॥ तृतीये पञ्चधोत्सेधं त्रियकुलविवर्धनात् । एकहस्तं समारभ्य त्रिवितस्त्यन्तमुच्चकम् ॥ ३८॥