________________
४३]
एकविंशालान्तं स्यान्नवधा चाक्षविस्तृतम् । सप्ताङ्गुलं समारभ्य द्विालविवर्धनात् ॥ १२ ॥ त्रयोविंशालान्तं स्याञ्चाक्षोत्सेधं तु पूर्ववत् । शिखाश्च(च)क्रतारं(काकारं) तुल्यं तारं युक्त्वायतं तथा ॥ १३॥ शालजम्बूकसारं च सरलं वकुलार्जुनम् । मधुकं तिन्त्रिणी चैव वर्व(बर्बु)रद्रुममं च ॥ १४ ॥ व्याघ्री च सीरिणी चैत्र खादिरं कृकरं शमी। एवं चक्रादिदारुभ्यां(भिः) युक्त्या बलवशान्न्यसेत् ॥१५॥ दन्ततारे चतुष्पञ्चभागैकं शल्यविस्तृतम् । समं वाथ्य(ध्य)धर्मवं वा द्वयं तिर्यग्गतायतम् ॥ १६ ॥ दन्तधा(ता)रसमाधिक्यं कीलायाममुदीरितम् । कुर्याद् दन्ताग्रके छिद्रं युक्त्या कीलं प्रयोजयत् ॥१७॥ प्रक्षोपरि तथाता(धा)रं मानं चाप्यथ वक्ष्यते । सार्धहस्तं समारभ्य षट्पडडुलवर्धनात् ॥ १८ ॥ पञ्चहस्तान्तविस्तारं भा पञ्चा(च)दशं भवेत् । विस्तारद्विगुणान्तं च तत्पादांशेन वर्धनात् ॥ १६ ॥ पुरं पृष्ठायतं होवं नवमानमुदीरितम् । त्रिचतुष्पञ्चपट्सप्तसा(ता)ष्टनन्ददशाङ्गुलम् ॥२०॥ एतत्तु भारयुक्तं स्यात्तुद्रे तु द्वयमेव च । मुख पृष्ठे पट्टके स्यात्कुर्यादुक्तविशालवत् ॥ २१ ॥ सर्वेषां च रथाधारं दारुविस्तारमेव च । तत्पश्चांशेनवृद्धिः स्याद् द्विगुणान्तं तथेोदयम् ॥२२॥ रथाधारोदये देशे चोपधारं प्रयोजयेत् । भारायामे चतुष्पञ्चषट्सप्तांशविभाजिते ॥ २३ ॥ एकैकांशविहीनं स्यात् शे(च्छे)षांशेनायतं तथा । रथाधारसमुत्सेधं विस्तारस्याधिकं तथा ॥२४॥ पादमध त्रिपादं च तत्समं चाधिकोदयम् । दारुतारसमं कुर्यात्सर्वालङ्कारसंयुतम् ॥ २५ ॥