________________
गा
भूमिका कारबागमे वैखानसागमे कामिकागमे चेदं तालमान समुपवर्णितम् (१)। मानसारस्य पञ्च. षष्टितमषट्षष्टितमाध्याययोरुत्तमदशतानलक्षणमध्यमदशतावलक्षणे यथाक्रम विशेषेणोदाहृते । ततः प्रलम्बलक्षणाभिधेष्याये समभङ्ग प्राभङ्गोऽतिमलिभङ्गश्चेति भङ्गस्थानां मूर्तीनां कतिभिः शिरसः पार्थादिभ्यश्च निर्गतामिः काल्पनिकीभी रेखाभिर्मानादिकं निर्धारितम् । ततो मधूच्छिष्टनाम्न्यध्याये मूर्तीनां स्वर्णरजतादिनिर्मितानां मधूच्छिष्टादिना शोधेनं वर्णितम् । ततो मूर्तीनां तथा च गृहादीनां निर्माणदोषपरिहारार्थोऽङ्गदूषण विधाननामकोऽध्यायः । मन्तिमे सप्ततितमे नयनान्मीलनाध्याये मूर्तीनां निर्माणशे चक्षुरुन्मीलनं वर्णितम् ।
अस्य मानसारस्य सप्ततिसंख्यकेष्वध्यायंषु प्रथमाष्टकं प्राथमिकं प्रस्तावनामूलकमानुपङ्गिकविषयात्मकम् । अनन्तरेषु द्विचत्वारिंशत्संख्यध्वध्यायेषु सर्वविधानां वास्तुशिल्पानां तथा प्रामाणां नगरदुर्गप्राकाराण शालामण्डपगोपुराट्टालिकाराजहादीनां तलस्तम्भपीठो. पपीठाधिष्ठानाद्यङ्गप्रत्यङ्गानां सम्पूर्ण विवरणं वैज्ञानिकरीत्या विस्तरेण कृतम् । तत्र तु यानरथशय्यासनपेटिकादीपदण्डादिगृहोपकरणानां तथा च सर्वविधानां हारवलयकङ्कणकेयूरपादुकाशिरोभूषणानां च विस्तृत विवरणमस्ति । विंशतावध्यायध्वन्तिमेषु भास्करीयशिल्पानां वर्णनं विद्यते । तत्र देवदेवीना यक्षविद्याधरगन्धर्वकिन्नराणा स्त्रीपुरुषाणां तथा च भुनीनां महापुरुषाणां पशुपक्षिमत्स्यकीटादीनां च मूर्तीनामीदृशं सकलं विवरणमुपलभ्यते येनानायासेनैवाशिक्तैिरपि शिल्पिभिर्निर्दोषाः प्रतिमा निर्मातुं शक्याः ।
अस्मादिदं तावदसंशयं ज्ञायते यत्र मानसारे सर्वेषामेव स्थापत्यमास्करीयशिल्पानां विवरणं कृतमिति । शिल्पकोषनानि प्रबन्धान्तरेऽस्मतकताभिधानस्य परिशिष्टे तथा चान्यवापि (२) वर्तमानानां मुद्रितामुद्रितानां सर्वशिल्पशास्त्राणां सेचिप्तं विवरणं प्रदर्शितम् । तेषु शतद्वयमितेषु प्रन्थेषु विवरणप्राचुर्यविषये वा प्रस्तुतविषयविन्यासविषये वोभयात्मके न कोपि मानसारसदृशः । ते तु प्रायेण सर्व एव मानसारमूलका इत्यस्माभिः स्वकृतभारतीयशिल्पशाने (३) प्रदर्शितम् ।
(१) मानसारम् ; अध्याय १००-३५५७१४-६४ पा६७-१००% र १७९% ॥२-७८ । बिम्बमानम, मो०१७ ७२१-१३८ । परिशिष्टम् १०। अंशुमदूमेदः-- पालिङ पृ० २५१ । वृहत्संहिता-०५८मो०४ । ब्रह्माण्डपुराणम् खरड १, अनुषङ्गपाद अ०७. मो०१७। मत्स्यपुराणम्-०२५८ प्रो० १९ अवशिष्टानां प्रमाणानि मदीयमारतीयशिल्पशास्त्रे १२१ तमे पृष्ठे व्यानि।
(२) मदोयभारतीयशिल्पशास्त्रम् पृ०९-१०९। (३) अध्यायः ३, पृ० ११० १३३।
(१०)