________________
भूमिका
[" भूमिसम्बविधान वर्णितम् । प्रमङ्गक्रमेण कतिसंख्यकसलेषु गृहेषु के के वसन्तीत्येतदपि निर्धारितम् । अनन्तर सर्वप्रकाराणां वास्तूनां गर्भन्यासविधिः, उपपीठलचणम्, अधिष्ठानविधि:, स्तम्भलतयम्, प्रस्तर विधिः, सन्धिकर्म च विस्तरेण वर्णितानि । तते विमानलक्षणाभिधेऽध्याये सर्वप्रकाराणां गृहायां कतिचित् साधारण विवरणानि कृतानि । ततो द्वादशसु प्रकरणेष्वेका दिद्वादशान्ततलानि विस्तरेण प्रतिपादितानि । ततः प्राकारनामकवास्तुविशेषस्य विस्तृतं विवरणम् । परिवारकाख्येऽध्यायं मन्दिरस्य प्राङ्गणे कुत्र केषां परिवारदेवानां गृहाणि भवेयुरित्यानां चितम् । ततः षोडशतनान्तानां गोपुराभिधानानां देवमानवसदनबहिर्द्वारगृहायां विशद विवरणं कृतम् । तत एकस्मिन् सुदीर्घप्रकरणे मण्डपानाम्, प्रन्यस्मिंश्च शालानां वर्णनमस्ति । तता गृहविन्यासा गृहप्रवेशश्चेति द्वे प्रकरणे । एवं क्रमेण सर्वप्रकाराणां हर्म्याणां द्वारमानं द्वारस्थानं चाध्यायद्वयं वर्णितम् । तदनु राज हर्म्य वर्णनानन्तरं राज्याङ्गस्य भूपतीनां च लत्तणानि कृतानि । तता यानरथादिलक्षयम् । प्रथ क्रमेण शयनं सिंहासनं तारणं चाध्यायत्रये विवृतानि । प्राङ्गणस्थमध्यवङ्गनामकस्य वास्तुविशेषस्य वर्णनं तथा तोरणासनमण्डप प्राङ्गयादीनां भूषणार्थ कल्पवृक्षलक्षणमध्यायद्वये ततो लभ्यम् । ऊनपचाशत्तमे प्रकरणे नानाविधराजमुकुटराजाभिषेकवर्णनं कृत्वा सर्वप्रकारायां गृहाभरथानां तथाऽङ्गाभरणानां च वर्णनं भूषणनामके पश्चाशत्तमेऽध्याये कृतम् ।
ततो विंशतावध्यायंषु भास्करीयाणां वर्णनम् । तत्रैकपश्वाशन्तमेऽध्याये ब्रह्मादित्रिमूर्ति - लक्षणम् । शिवलिङ्गस्य तत्पीठस्य च लक्षणमध्यायद्वयं विस्तृतम् । शक्तिनामके ऽध्याये खोमूर्तीनां भेदा लक्षणानि च वर्णितानि । बौद्धदेवानां जैनदेवानां च मूर्त्तिवर्णनं ततः परं दृश्यते । अनन्तरं मुनिलक्षणं यतविद्याधरादिलक्षणं च । ततो भक्तल चवाहेऽध्याये सालोक्यसामीप्यसारूप्यमायुज्यभेदभिन्नानां महापुरुषाणां मूर्त्तिलचणं विशदीकृतम् ।
ततो देववाहनानां मूर्त्तिलक्षणम् - तत्राध्यायचतुष्टये हंस- गरुड - वृषभ - सिंहल तयानि क्रमेयालोचितानि । परवर्त्तिन्यध्याये प्रतिमाविधानाख्ये सर्वविधप्रतिमानां किश्चित्साधारणं विवरणं प्रदत्तम् ।
I
श्रतः परं तालमानं विशदीकृतम् । तालमानं तु मूर्तीनां पादादिमस्तकान्ताङ्गप्रत्यङ्गानामापेक्षिकं षड्विधं मानादिकम् । तथा हि-मानं प्रमायं परिमाणं लम्बमानमुन्मानमुपमानं चेति । प्रत्र मानसारे तालमानस्य दश एव भेदाः । परन्तु बिम्बमाने द्वादश भेदा: स्वीकृताः । काश्यपी अंशुमद्भेदे बृहत्संहितायां ब्रह्माण्डपुराये मत्स्यपुराणे शिल्पर ने सुप्रभेदागमे ( ९ )