________________ 42] राजलक्षयम् चतुष्टयगुणाधीशश्चार्धराज्यस्य चेश्वरः / एकदुर्गस्याधिपतिः स्वाम्यमात्यैरपीश्वरः // 11 // मण्डलाधिपतिः(ति)पट्टभावभौमेऽ(गन्यैर)पि वर्जितम् (तः)। एवं गुणविशिष्टोऽसौ प्रोक्तः पट्टधराख्यया // 12 // प्रर्धमण्डलस्याधिपतिरेकमण्डलसंश्रितः / पट्टभागादिवन्द्योऽसौ मण्डलेश इति स्मृतः // 13 // मण्डलाधिपतिः(र्धाधिपः) श्रीमानेकदुर्गमधिष्ठितः / सजनानां धनाढ्यानामधिपः पट्टभाक स्मृतः // 14 // ब्राह्मणक्षत्रियवैश्यशूद्रैः(द्राणाम्) ए(चै)ककुखोद्भवः / एकदुर्गस्याधिपति नाजनपदाधिपः // 15 // सजनाधिपतिः सर्वरक्षादिन(नि)करेश्वरः / एतक्षणयुक्तोऽसौ राजा प्राहारकः स्मृतः // 16 // नानाजनपदाधीशो नगरीनायकः प्रभुः / एकदुर्गमधिष्ठा(स्था)प्य नानाजनपदैकराट् // 17 // आदाय दुर्बलानां तु सोऽस्त्रप्राही प्रकीर्तितः / चक्रवर्ती प्र(चा)धिराजश्च नरेन्द्रश्चाविचारकः(कम्)॥१८॥ पार्णिकश्च शिरखं स्यात्पट्टधृक् पट्टबन्धनम् / मण्डलेशस्य पढें स्यात्पट्टभाक् पट्टबन्धनम् // 16 // प्राहारकश्वासपाही चोभी माखाधरौ स्मृती / चक्रवर्ती महाराजो नरेन्द्रश्चैव मौलिनः // 20 // सिंहासन सनियूहं कल्पवृक्षसतोरणम् / पार्णिकश्च पट्टधरः पट्टभाक् तृतीयस्य तु // 21 // विना कल्पतरो:(6) सर्वमुक्तं सिंहासनादिकम् / प्राहारकस्य नृपतेः सिंहासनामति स्मृतम् // 22 // प्रखपाहस्य भूपस्य केवल चासनं भवेत् / चक्रवादि(दे)निर्वाध भूपाखायो(द)विशेषतः // 23 //