________________
राजलक्षणम्
अथ वक्ष्ये विशेषेण भूपानां लक्षणं परम । चक्रवर्ती महाराजो नरेन्द्रः पाकिस्तथा ॥ १ ॥
अथ पट्टधरश्वापि मण्डनेशस्तथैव च । प्रथैव पट्टभाक् चैव ततः प्राहारकस्तथा ॥ २ ॥
प्रहस्ततश्चै नव भूषा यथाक्रमात् (मम् ) । चतु:सागरपर्यन्तां महीं स्वीकृत्य बलवान् ॥ ३ ॥ जित्वा द्वारस्य पुरतो बन्ध ( घंटा ) माबध्य संस्थितः | न्यायान्यायविचारार्थ किश्विन्मध्यप्रतापवान् ॥ ४॥ कीर्तिमान श्रीमतां श्रेष्ठः कृपया लोकरक्षकः । सर्वावनीन्द्रवन्द्योऽसौ चक्रवर्तीति कीर्तितः ।। ५ ।। शक्तित्रयेदन्तिण (त्रयंथ) स्वीकृत्य सप्तराज्यस्य चेश्वरः । षड्गुणैः षड्बलैर्युक्तो नीतिज्ञः सूर्यवंशवान् ॥ ६ ॥ चन्द्रवंशोदितो वाथ चाधिराज इति स्मृतः । शक्तित्रयेण त्रितयराज्यं स्वीकृत्य दुर्वलान् (तु) ॥ ७ ॥ पार्ष्णिकः पट्टधरो मण्डलेशोऽपि पट्टभाक् । एतैर्वन्द्यपदद्वन्द्वो नीतिनेत्रः प्र (चा) रिन्दमः ॥ ८ ॥ सुकृती चेोत्सवर तो नरेन्द्रः परिकीर्तितः । एकराज्यस्याधिपतिश्चैकदुर्गमधिष्ठितः ॥ ६ ॥
षड्बलाधिपतिर्ज्ञानी कालशोऽथ प्रयोगवान् । एवं परेभ्यश्चाभिहितो पार्श्विक इ (वे ) ति स्मृतः ॥ १० ॥
4
8
12
16
20