________________
राजाङ्गविधानम् भूपतीनां च सर्वेषां सर्वाङ्ग वक्ष्यतेऽधुना। अधीत्याम्नायचतुरं तत्पडङ्ग पदक्रमात् ॥ १॥ शस्त्रास्त्रमन्त्रसर्वादीन्सर्वशास्त्राब्धिपारगः। षड्दर्शनं समं चैव दीक्षया च प्रवर्तकः ॥ २ ॥ धीरोद्धतो धीरललिता धीरोदात्तस्तथैव च ।
(ज्यं तु) स्वयं ज्ञात्वा स्वयन्त्रित: ।। ३।। शूरः प्रासश्च कोशार्थ (व्यो) धर्मज्ञो नीतिपारगः । समस्तभूमृतां चैते गुणाः प्रोक्ता विशेषतः ॥४॥ एतानि गुणरत्नानि राज्ञो यस्य च (ज्ञां सर्वेषां) सन्ति वै । शतपञ्चतुरङ्गानि(णि) पञ्चकुञ्जरमेव च ॥ ५॥ . लक्षार्धतन्त्राधिपतिः शतपञ्चवराङ्गनाः। एका स्यात्पट्टमहिषी अ(सोऽ)स्त्रमाहो(ह:) प्रकीर्तिता(तः) ॥६॥ षट्शत(त)मरीशकोट्यानि निषद(इ)न्ताबलमेव च । लक्षतन्त्राधिपतिश्च सप्ता(१)शतवराङ्गनाः ॥७॥ स्याता महिण्या(प्यौ) द्वितीय(द्वे चैव) प्राहारक इति स्मृतम् । शवाष्टहयरत्नानि सप्तद्विरदमेव च ॥८॥ सार्धलक्षतन्त्र स्यात्रि(त्तु) सहस्रं(स्र)वराङ्गनाः । महिषीत्रयमेवं च पट्टभाक् इति(चेत्येव) स्मृतम् ॥६॥ सहस्राश्वं दशभु(ग)ज पश्चाशतसहस्रकम् । वराङ्गनाभिरासेव्यो महिष्यश्व चतुष्टयम् ।।१०।। लक्षद्वयं तन्त्रं स्यान्मण्डलेशस्य भूपतेः । पञ्चा(१)शतसहस्राश्वाः द्वादशं कुखरं तथा ॥११॥ लक्षद्वयं च तन्त्र स्याद् द्विसहस्रवराङ्गनाः । महिष्यः पञ्च पट्टाभाः पट्टधृक(ग) भूपतिर्विदुः ॥१२॥