________________
४०]
राजहर्म्यविधानम्
तद्देशे चार्ध्ववेदिः स्याद्विपदार्थाङ्क (ङ्ग) यान्वितम् । परितः शूलकम्पं स्याद् द्वारं तद्द्दक्षिणोत्तरे ॥ ६८ ॥ तत्तत्पश्चिमदेशे तु युद्धालोकनमण्डपम् । श्रारुह्यावलोकनार्थ [स्यात् ] कुर्याद्युक्त्या च मण्डपम् ।। ६६ ॥ वरुणे पुष्पदन्ते वा मेषयुद्धार्थमण्डपम् ।
मृगे च भृङ्गराजे वा कुक्कुटायुद्धभण्डपम् ॥ ७० ॥ मण्डपाङ्गणमध्यं तु परिता मेखलैर्यु (लायु) तम् । एकद्वित्रिचतुष्पश्चहस्तमूलाप्रविस्तृतम् ॥ ७१ ॥ सार्धद्विहस्तनिम्नं स्यात्सार्धपरिघान्वितम् ।
(दो)वारिकपदे चैव मयूरालयमेव च ।। ७२ ।। द्वारस्य दक्षिण बाह्ये व्याघ्रकालयमेव च । तद्वा तत्र देवादीन् ( नां) किरातालयमेव च ॥ ७३ ॥ तृतीयं वितथे तस्याशे रहस्यावासमण्डपम् ।
दिग्भागे सन्धिविग्रहमण्डपम् ॥ ७४ ॥ षट्सप्तावर वापि दक्षिण पश्चिमेऽपि च (वा) । उत्तरे पूर्व के वापि गजम (जा) श्वादिवाहनम् (नानि ) ॥ ७५ ॥ प्रारुह्यलोकनार्थ च मण्डपं परिकल्पयेत् ।
ईशे वा वितथे चैव रङ्गमण्डपमेव च ।। ७६ ।। भृशे वा सा (चा) न्तरीक्षे वा कारागृहमेव च (तथा) प्राकारस्य चतुर्दिक्षु द्वारगापुरकान्वितम् ।। ७७ ।। शेषं प्रागुक्तवत्कुर्यान्नृपचित्तवशात्तु यत् । प्रनुक्तं मण्डपं युक्त्या कुर्यादापडशान्वितम् ।। ७८ ।। ब्रह्म ब्रह्मपीठं स्यात्कुर्यादावृतमण्डपम् ॥ ७६ ॥ हस्तेन भूतमुनिरन्ध्रेण करं कृत्वा
विस्तारभित्तिं चतुरश्रं त्रियै (ध) कवे (के) न ।
ग्रामस्य मध्यमथ भूपतिमध्यहर्म्ये
नित्यं त्रिकाल (म्) इव पूजित ( तं) ब्रह्मपीठम् ॥ ८० ॥
इति मानसारे वास्तुशास्त्रे राजहर्म्यविधानं नाम चत्वारिंशोऽध्यायः ॥
२७६
136
140
144
148
152
156
160