________________
४०]]
राजहयंविधानम् इन्द्रे इ(चे)न्द्रजयस्यांशे पाjिकस्य गृहं भवेत् । अथवा पुष्पदन्तस्य पदे वासं प्रकल्पयेत् ॥ ४०॥ रुद्रे रुद्रजये वापि चासुरस्य पदेऽथवा । पट्टधृगालयं कुर्याच्छोषकस्य पदेऽपि वा ।। ४१ ।। गृहक्षते च सवित्रे सावित्रस्य पदेऽपि वा । मण्डलेशस्य हर्म्य स्यात्पट्टभाक्(जश्)चालयं तु वा ।। ४२ ॥ प्रापवत् सा(अपवत्सस्या)पवत्स(त्स्य)स्य मृगे वा मुख्य केऽपि वा। प्राहारकास्त्रप्रायोश्चालयं परिकल्पयेत् ।। ४३ ॥ सर्वेषामपि भूपानां स्वनिर्यानि(स्थानीयादि)चतुष्टये । गृहमेवं तु शा(सा)लायां चोक्तमेवं पुरातनैः ॥४४॥ सर्वेषां मूलहाणां पूर्वद्वारं प्रकल्पयेत् । तत्तन्मूलस्य हर्म्यस्य दक्षिणे चोत्तरेऽपि वा ॥ ४५ ॥ नैर्मृत्ये वायवे चापि तत्तन्महिषि(षी)कागृहम् । मूलहर्म्यस्य याम्ये तु सा(चा)भिषेकादिमण्डपम् ॥ ४६॥ सुग्रीवे पुष्पदन्ते वा चायुधस्यालयं भवेत् । असुरे शोषके वापि वस्तुनिक्षेपमण्डपम् ॥४७॥ वरुणे नैर्मृते वापि मुहुर्वस्त्रधनालयम् । मामे च मुख्यके वापि रनहेमादिकालयम् ॥४८॥ गन्धर्वे भृगराजे वा भूषणालयमेव च । दक्षिणे नैर्ऋते वापि भोजनार्थ तु मण्डपम् ॥ ४६ ।। तथेशानपदे वापि पचनालयमेव च । अनिले चाग्निके वापि पुष्करिण्या(णीश्) च कल्पयेत् ॥५०॥ महिष्यावाससौम्ये कञ्चकोरा(किनश्)प्रा(चा)लयं भवेत् । वायव्येन धनाङ्गाशे पुष्पमण्डपं योजयेत् ॥ ५१ ॥ अदिते(ती) चोदिते वापि मज(ज)नालयमेव च । तत्तद्वाह्यप्रदेशे तु कायशुद्धयर्थमण्डपम् ॥५२॥ वायव्ये नैर्मृते वापि सूतिकामण्डपं भवेत् । पूरे(ष्णि) वा वितथे चैव दासदास्यालयं भवेत् ।। ५३॥