________________
२७६
मानसारे तन्माने तु सालानां विनाभित्ति(त्ति) सभित्तिकम् । अन्तर्भित्तिस्तु चैवं स्यादहिर्भित्तिस्तु सर्वदा ॥ २६ ॥ कुर्यात्पश्चात्तु भित्तिश्चेत(त्तिं च) मानं वक्ष्ये यथाक्रमम् । उक्तप्रमाणबाह्ये तु कुड्यं कुर्यात्समन्ततः ॥२७॥ एकदण्डं समारभ्य सा(चा)धदण्डेन वर्धनात् । एकसालादि सप्तान्तं चतुर्दण्डावसानकम् ।। २८॥ भित्तिविस्तारमित्युक्तं केचिद्धस्तविवर्धनात् । सार्धद्विदण्डपर्यन्तं सप्तमान्तं विशालकम् ॥ २६ ॥ विस्तारं तु(रस्य) समुत्सेधं तत्पादाधिकमेव वा । प्रर्धाधिकमयात्सेधं पादोनद्विगुणं तु वा ॥३०॥ विस्तार(र)द्विगुणं वापि बाये वगं तथोन्नतम् । मूलतारे तु सप्तसाष्टांशैकैक[वि]हीनकम् ॥ ३१ ॥ भित्तिगृहस्य विशाल स्यान्मूलाप्रान्त क्षय(य)क्रमात् । प्राकारशीर्षसर्व [च] हस्तेनदन्तरोन्नतम्(नान्तरान्ततः) ॥३२॥ वृत्तं वा चतुर वा वक्राकारं तथैव च । षण्मा चाष्टमात्रं च द्वादशाङ्गुलमेव च ॥ ३३ ॥ कुर्यादन्तान्तरं शेषं शेषं युक्त्या प्रयोजयेत् । शिलाचे(ले)ष्टकयोऽपि [च] मृण्मयैर्भित्तिकल्पनम् ॥ ३४ ॥ एकं वोदकभिात्तं वा कुड्यान्तं मण्डपाकारकम् । एवं कल्पं तु कामार्थमनुचरादिवासकम् ॥ ३५ ॥ एवं(योग्य) तु गृहमानं स्याद् विस्ता चाथ वक्ष्यते । सालानामपि सर्वेषां. परमशाधि(यि)कपदं न्यसेत् ॥३६ ॥ मध्ये ब्रह्मपदं त्यक्त्वा परितस्तु नृपादिभिः(दीनाम्) । कुर्यात्सर्वत्र सर्वेषामभीष्टादिजनालयम् ॥ ३७॥ इन्द्रे च वारुणे वापि सार्वभौमस्य हर्म्यकम् । अथवार्यपदे चैव चतुर्दितु विदिश्वपि ॥ ३८॥ यमे विवस्वते(ति) चापि चाधिराजस्य हर्यकम् । भूधरे च कुबेरे च नरेन्द्रस्यालयं भवेत् ॥३६॥