________________
राजहयंविधानम् हम्य(म्ये) पट्टधरोत्सेधे(रस्य च) विस्तारायाम(म) पूर्ववत् । ससप्तशतदण्डादौ द्विद्विदण्डेन वर्धनात् ॥१२॥ त्रयोविंशच्छतान्तं स्यात्कन्यसादि त्रयं त्रयम् । मण्डलेशालयतारं दीर्घ (दैय) प्रागुक्तवन्नयेत् ॥ १३ ॥ एकाधिक्यं तु नवतिदण्डं चैव समारभेत् । हस्ता(सप्ता)धिकशतान्तं च विस्तारं नवधा भवेत् ॥ १४ ॥ एवं तु पट्टभाक(ग)हयें चाया पूर्ववद् भवेत् । सविन(न)वाष्टदण्डादौ द्विद्विदण्डेन वर्धनात् ॥१५॥ एकाधिकनवत्यन्त(न्त) नवधा चोक्तमानकम् । प्राहारकस्य हर्ये तु कन्यसादि विशालकम् ॥ १६ ॥ मायामं पूर्ववत्कुर्याद्वर्धयेद् द्विगुणान्तकम् । नवाधिकं तु पञ्चाशद् दण्डं चैव समारभेत् ॥१७॥ सपञ्चसप्ततिश्चान्तं द्विद्विदण्डेन वर्धनात् । एवं तु नवधा प्रोक्तं कन्यसादि त्रयं त्रयम् ॥१८॥ प्रसपाहस्य हर्षं तु चैवायाम तु पूर्ववत् । एकादि सप्तसालान्तं चक्रवर्तिनो हर्नाके ॥१६॥ षट्प्राकारं तु संकल्प चाधिराजस्य हर्म्यके।। एकादिपञ्चसालान्तं नरेन्द्रस्यापि हय॑के ॥२०॥ चतुःशा(सा)लावसानान्तं पार्णिकस्य तु हऱ्याके। एकादिकं त्रिसालान्तं पट्टधरादिभित्रिभिः(दित्रयाणाम्) ।। २१ ॥ प्राहारकासप्राहाभ्यां(हयोः) कुड्यमेकं द्वयान्तकम् । प्रध:(न्त:)सान्वं तथैकांशं द्वितीयं च त्रयांशकम् ॥२२॥ तृतीयं सप्तभागं स्यात्सैकाशं त्व(तु)रीयकम् । पञ्चमं चैकविंशांशमेकत्रिंशांश षष्ठकम् ॥ २३ ॥ सप्तमं च त्रयाधिक्यं चत्वारिंशाशमेव वा। कुर्यादेवं तु विस्तारे तत्तदायाम पूर्ववत् ॥ २४ ॥ पूर्वोक्तदण्डमानं चेदान्तःसाले प्रकल्पयेत् । तस्मात्तु चोक्तवद् वृया सप्तसालावसानकम् ॥ २५ ॥