________________
राजहर्म्यविधानम्
भूपतीनां च हर्ष्याणां लक्षणं वक्ष्यतेऽधुना । एकाशीतिक्रमाधिक्यं शतदण्डं समारभेत् ॥ १ ॥ द्विशतदण्डान्तं द्विद्विदण्डविवर्धनात् । सर्वभूपस्य हर्म्ये तु कन्यसादि त्र्यं त्रयम् ॥ २ ॥ • तद्विस्तारमिति प्रोक्तमायाममिति वक्ष्यते । विस्तारात्पादमाधिक्यमर्धाधिक्यमथापिवा ॥ ३ ॥ त्रिपादाधिक्यमेवं वा तत्समाधिक्यमेव वा । पञ्चाधिकचतुःषष्टिशतदण्डं समारभेत् ॥ ४ ॥ एकाशीतिशतान्तं स्याद् द्विद्विदण्डेन वर्धनात् । एवं तु चेात्तमान्तं स्यात्कन्यसादि त्र्यं त्रयम् ॥ ५ ॥ महाराजस्य हर्म्ये तु विशालं परिकीर्तितम् । विस्तारादाय ते (यामं) सर्वे यथा प्रागुक्तवन्नयेत् || ६ || त्रयाधिक्यं च पथ्यांशं ( ध्याशत्) शतदण्डं समारभेत् । नन्दषष्टा (ट्य) धिकं दण्डं शतदण्डावसानकम् ॥ ७ ॥ कन्यसा नवधा प्रोक्तं द्विद्विदण्डेन वर्धनात् ।
नरेन्द्रस्या (न्द्रा)लये सर्वे (f) विस्तारं परिकीर्तितम् ॥ ८ ॥ नवत्रिंशाधिकं दण्डं शतदण्डं समारभेत् । पञ्चाशच्छतपर्यन्तं कन्यसादि त्रयं त्रयम् ॥ ६ ॥ पार्ष्णिकस्य तु हर्म्यस्य विस्तारं परिकीर्तितम् । पूर्ववचायते सर्वे (र्व) विस्तारं वर्धयेत्क्रमात् ॥ १० ॥ त्रयोविंशच्छतमारभ्य द्विद्विदण्डेन वर्धनात् । नवत्रिंशद्धवान्तं स्यात्पूर्ववन्नवभेदकम् ॥ ११ ॥
8
12
16
20