________________
२७३
140
144
द्वारमानविधानम् देवानां मूलहवें तु कवाटाधिक्यवामके । सर्वेषामालये चान्तं यथेष्टं स्यापयेत्सुधीः ॥ ६८॥
136 उक्तवत्स्थापयेद् द्वारं स्थपति: स्थापकैः सह । देवानां हhके सर्व मध्यद्वारं तु जालकम् ।। ६६ ॥ द्विजातीनां च वर्णानां गृहे वातायनं बुधः । मध्यस्तम्भं यथायुक्त्याकारं यत्तु यथेष्टकम् ॥ ७० ॥ देवानां भूसुरादीनां वर्णानां च गृहे गृह । द्वारपट्टिकाया मानं लक्षणं वक्ष्यतेऽधुना ।। ७१ ॥ द्वारस्य पुरतो देशे द्वारमध्ये सभद्रकम् । एकभाग(गं) द्विभागं वा निर्गमं पट्टिका भवेत् ।। ७२ ।। एकत्रिपञ्चभागेन पट्टिकाविस्तृतं भवेत् । विस्तार(र)द्विगुणं वापि पादानं द्विगुणं तु वा ।। ७३ ।। विस्तारार्धाधिकं वापि तद्द्वारं (र)पट्टिकोदयम् ।। तुङ्गे चाष्टांशकं कृत्वा चैकभागं मसूरकम् ।। ७४ ॥
148 तवयं पादतुङ्गं स्यात्तदर्ध प्रस्तरोदयम् । तत्समं प्रोवतुङ्गं स्यात् शि(च्छि)रतु(स्तु)ङ्गं द्वयांशकम् ॥ ७५ ॥ तदर्ध स्तूपितुङ्गं स्यात् शा(च्छा)लाकारं शिरो भवेत् । अथवा नासिकाकारं कुर्याद भित्ति(त्या) सहैव च ॥७६ ॥ षड्वर्गमिति प्रोक्तं च चतुर्वर्गमिहोच्यते । तुङ्गे षडंशके(क) कृत्वा ए(चै)का[]येकवेदिका ॥ ७७ ।। पादं शिरः शिखा प्रोक्तं शेषं प्रागुक्तवन्नयेत् । सर्वालङ्कारसंयुक्तमेवमुक्तं पुरातनैः ।। ७८ ॥
166 प्रज्ञानाद् विपरीतं चेत्सर्वसम्पद्विनाशनम् ।। ७६ ।। एवं द्वारं तैत(ति)लानां द्विजानाम्
भूपानां चैव वैश्यकानां परेषाम् । मानं यत्तचोक्तवद्धयंदेशे
कुर्यात्सर्वसम्पदास्पदं स्यात् ॥८॥ इति मानसारे वास्तुशास्त्रे द्वारमानविधानं नाम पकानचत्वारिंशाध्यायः॥ .
162
160
34