________________
२७२
मानसारे
11
युग्मवेदकुमाराष्टपङ्क्त्यशं द्वादशांशकम् । कुर्यात्कवाटदीर्घे (देयें) क्षेपणं विस्तृता ( स्तारो ) धिकम् ।। ५४ ॥ त्रिचतुष्पथ्या (भ्वषड) ङ्गुलं वा [ पि] तस्य विस्तार (रं) मानयेत् । शुद्धद्वार समायामे विस्तारे परिकल्पयेत् ।। ५५ ।। प्रायदण्ड (ण्डं) त्रिधापञ्चसप्तकाकृतमेव च । दीर्घ ह्रस्वं च सर्वेषामिदं युक्त्या प्रयोजयेत् ॥ ५६ ॥ सन्धिमध्ये तु वेदार्थं पट्टिकानां तु पादयुक् । पद्मपत्रादि सर्वेषां युक्त्या च समलङ्कृतम् ॥ ५७ ॥ प्राकारे च महाद्वारं क्षुद्रद्वारं कवाटके । सप्ताङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥ ५८ ॥ पचविंशालायामं त्रिचतुर्था (र) ङ्गुलं ततिः । तदर्ध तद्धनं कुर्यात्रिचतुष्पचाङ्गुलोन्नतम् ॥ ५६ ॥ कील भाजनमित्युक्तं कीलनं तु प्रवक्ष्यते । भाजनायामवत्कुर्यात्की लायामं यथेोक्तवत् ॥ ६० ॥ एकद्वित्र्यङ्गुलं वापि कीलतारं यथेष्टकम्। कवायुक्तं (i) तथैकं चेद् द्वारदक्षिणपार्श्वके ।। ६१ ।। द्वापादे पदे (यथा) वापि योजयेत्कीलभाजनम् । पर्वयुक् कीलमूला भाजने छिद्रं योजयेत् ॥ ६२ ॥ अयस्कीलं च पट्टे च पद्मपत्रादिशोभितम् । कुर्यात्तत्तत्कवाटानां युक्त्या तत्कीलशूलके ।। ६३ ।। यथाबलं यथाशोभं तथा युञ्जीत बुद्धिमान् । द्वारा भूपुरा च कुर्यात्तच्छिद्रपट्टिका[म्] ॥ ६४ ॥ कवाटस्योर्ध्वशूलं च तत्तच्छिद्रे प्रवेशयेत् । अन्तरद्वारं (रायां) तु (चैव) कवाटं चैव योजयेत् ॥ ६५ ॥ कीलं च भाजनं चैव कवाटयुग्मं तु योजयेत् । कवाटायामविस्तारे मध्ये छिद्रं तु युग्मतः ॥ ६६ ॥ छिद्रयोर्मध्यं [च] तस्योर्ध्वतः कीलं तदन्योऽन्यं निवेशयेत् । एवं युवा कवाटं च सव्यासव्यं तु योजयेत् ॥ ६७ ॥
[अध्यायः
108
112
116
120
124
128
132