________________
३९)
88
द्वारमानविधानम् तत्पावे चाचरादन्त(नुचरान्ते) दिपयुग्मं तु कारयेत् । दक्षिणे तु गणेशं स्याद्वामभागे सरस्वतीम् ।। ४० ॥ छत्रचामरसंयुक्तं तोरणादिविभूषितम् । तस्याधा(धः) पूर्णकुम्भायैः दर्पयाविभूषितम् ॥ ४१ ।। कुर्यादेवं तु रक्षार्थ सम्पदामास्पदं सदा। प्रथवा द्वारयोगस्य विशालं वक्ष्यतेऽधुना ॥ ४२ ॥ त्रिचतुष्पञ्चपण्मात्रं तस्मात्तु यनुलाधिकम् । पञ्चविंशाडुलान्तश्च(न्तं च) चतुर्विशाडुलान्तकम् ॥ ४३ ॥ एकविंशाडुलान्तं स्याद् द्वाविंशाङ्गुल(ला)न्तकम् । त्रयोविंशाङ्गलान्तं स्याद् द्वारयोगस्य विस्तृतम् ॥ ४४ ॥ अथदा हस्तमारभ्य त्रिव्यङलविवर्धनात् । तनिहस्तावसानं स्यात्कन्यसादुत्तमान्तकम् ॥ ४५ ॥ दारुके तु शिला(ले) वापि कुर्याद् द्वारं विचक्षणः । क्षुद्रविस्तार() सर्वेषां द्वारयोगविशास्तकम् ॥ ४६ ॥ द्वारमानं तु सर्वेषां वर्णानां हर्म्यके न्यसेत् । देवानां हर्म्यके कुर्यात्तत्र दोषो न विद्यते ॥ ४७ ॥ द्वारभूषणसार्ध स्याद् द्वारमानेन कल्पयेत् । तद्विशालायततुल्यं कवाटायामविस्तृतम् ।। ४८॥ एकद्वित्रिचतुष्पञ्च कवाटस्य घनं भवेत् । एकं वा द्विकबाट वा युक्त्या तत्रैव योजयेत् ॥ ४६॥ युग्मदार न योग्यं स्यादयुग्मं चैव योजयेत् । युगलं तत्कवाट स्याद् दारुयुग्मं प्रयोजयेत् ॥ ५० ॥ दक्षिणस्य कवाट तु विशालाधिकमायतम् । एकद्वित्र्यडलं वामकवाट स्याद् द्विहस्त(विहीन)कम् ॥ ५१ ।। उत्समनं शिख तारं तवयं तस्य तुङ्गकम् । वृत्ताकारं(रा) शिखा सर्वा मूलोद्भवरचा(कुचं) भवेत् ॥ ५२ ॥ मध्ये तु क्षेपणं वामे(थ) शुद्धद्वारावसानकम् । त्रिचतुष्पञ्चषण्मानं मध्ये पथविस्तृतम् ।। ५३ ॥