________________
मानसारे शुद्धद्वारस्य परितः पादोदक (य)द्वार[सं]युतम् । भीमान्तं था(खा)तपादं वा चोत्तरान्तमथापि वा ॥२६॥ द्वारयोगस्य मूलाग्रे छिद्रं कुर्याद् दयार्द्वयम् । पट्टिकाद्वयमूलामे शिखायुक्ता(क्त)द्वारं योजयत् ॥ २७ ॥ • दारुद्वारमिति प्रोक्तं शिलाभग्नं तु योजयत् । कुड्यद्वारा(रम)र्कभागं स्यात्तद्वाह्ये पञ्चभागिकम् ॥ २८ ॥ अन्तःसप्ताशयामध्ये द्वारयोगस्य मध्यमे(मम)। तदंश(शे) त्रिचतुर्भागं पञ्चषट्सप्तभागिकम् ॥२६॥ अष्टांशं योगविस्तारं तदर्ध बहलं भवेत् । विस्तारस्य समं वापि त्रिपादं वाथ कल्पयंत् ॥ ३० ॥ पट्टिकोचायतं तारं घनं द्वारस्य योग्यकम् । द्वारयोगद्वयं चैव पट्टिकाद्वयमंव वा ॥ ३१ ॥ चतुर समारं वा भूषणालस्कृतं तु वा। योगादिघनमानं च कृत्वा बाह्ये नवांशकम् ॥ ३२ ॥ कुड्यान्ते पट्ट(९) बन्धा(न्ध्वं)शं तस्माद् ांशेन बन्धनम् । एकेन कम्पपट्टे स्याद्वन्धभागेन योजयेत् ॥ ३३ ॥ प्रथवांशेन पट्टं स्यात्पन(अं) मध्येऽर्धभागिकम् । अर्धेन कम्पसंयुक्तं कर्णबन्धांशमीरितम् ॥ ३४ ॥ कम्पमर्चेन(पद्ममध्येन) संयुक्तं चान्त्यं चेदलं भवेत् । एकाशं बाह्यपर्ट स्याद् गंशं भुवाङ्गकम् ॥ ३५ ॥ पन() द्वयांशकं चैव कम्पमेकेन कारयेत् । मध्यभुवाङ्गं युग्मांशं बाह्यपद्म द्वयांशकम् ॥३६॥ पट्टिकायोगबाटे तु द्वारांशं परितोऽन्वितम् । मथवा भूषणं तु स्यात्कुर्यास्वथ पट्टिका[म्] ॥ ३७ ।। द्वारयोगविशाले तु कर्ण वा द्विगुणं तु वा। योगमूलाप्रतुङ्गं स्यात् प(द) विन्यास(न्यसेत्) कुगलम् ॥ ३८ ॥ सर्वालङ्कारसंयुक्त पत्रवल्ल्यादिभूषितम् ।। द्वारो मध्यदेशे तु म(चा)धिराजो(जम)परि न्यसेत् ॥ ३६ ॥