________________
३९]
द्वारमानविधानम्
एवं तु मध्य तु मुख्ये (ख्य ) द्वारोदयं भवेत् । सार्धद्विहस्तमारभ्य षट्षङङ्गुलवर्धनात् ॥ १२ ॥ सार्धवेदकरान्तं स्यात्कन्यसादि नवोदयम् । मुख्यद्वारमिति प्रोक्तं मुख्य हर्म्ये तु योजयेत् ॥ १३ ॥ सप्तविंशेोदयं ह्येवं तदर्ध विस्तृतं भवेत् ।
एवं जातिवशात्प्रोक्तं छन्दादीनां प्रवच्यते ॥ १४ ॥ पश्वविंशाङ्गुला (लम)रभ्य द्विद्व्यङ्गुखविवर्धनात् । त्रयोविंशशतान्तं स्याच्छन्दद्वार विशालकम् ॥ १५ ॥ एकविंशाखा (लमारभ्य द्विद्व्यङ्गुलविवर्धनात् । एकविंशं शतान्तं स्याद्विकल्पद्वारविस्तृतम् ।। १६ । नवपक्ताङ्गुल। (लमा)रभ्य द्विद्व्यङ्गुलविवर्धनात् । एकपङ्क्ताङ्गुलाधिक्यं शतान्तमाभासविस्तृतम् ॥ १७ ॥ विस्ताराद् द्विगुणोत्सेधं सामान्यमिति कथ्यते । द्विगुयात्पादमाधिक्यमर्धाधिकमथापि वा ॥ १८ ॥ तदुत्सेधं नवांशं स्यात्पश्वाशद् (श्वांशं) द्वारविस्तृतम् । प्रायादिकर्मषड्वर्ग प्रवाहं (हो) वक्ष्यतेऽधुना ॥ १६ ॥ जातिद्वारोदये सर्वेचा (र्वस्मिना )यादिसंग्रहं भवेत् । छन्दादीनां तु सर्वेषां तारे चायादिसंग्रहम् ।। २० ।। वृद्धिहान्यादिसर्वेषां प्रासादस्योक्तवद् भवेत् ।
कन्यसे कन्यसा मानं मध्यमे मध्यमं तथा ।। २१ ।।
मुख्ये मुख्यं तु मानं स्यात्कुर्याद् द्वारं शुभावहम् । हीनाधिकमानं चेत् श्रे (च्छे ) ष्ठकन्यसमानकम् ॥ २२ ॥ तद्द्द्वयोर्मध्यमं चाक्तं मध्यमे तद्द्द्वयं तु वा । सर्वेषामपि वर्णानां सर्वसंपद्विनाशनम् ॥ २३॥ शान्तिकादि यथाहर्म्य द्वारं तच्छान्तिकादिकम् । कुर्यादारोग्यमायुष्यं भुक्तिमुक्तिफलप्रदम् ॥ २४ ॥ विपरीते नृपादीनां विपत्यं (त्तिं) नित्यमावहेत । द्वारमानमिति प्रोक्तं पादादीन्वक्ष्यतेऽधुना ।। २५ ।।
२६६
24
28
32
36
40
44
48