________________
३६]
गृहमानस्थानविधानम् रुद्ररुद्रजये वापि कन्यकारालयं भवेत् । सावित्रे च सवित्रे वा पुत्राणां चैव वासकम् ॥२६॥ मृगे च सर्वजातीनां विद्याभ्यासार्थमण्डपम् । तस्य बाह्यप्रदेशे तु तैलाभ्यङ्गार्थमण्डपम् ॥२७॥ अन्त्ये चावरणे चैशे वास्थानमण्डपं भवेत् । सोमे चैव विशाला(लासा)र्थ मण्डपं कल्पयेत्ततः ॥२८॥ मृगे वा मुख्यके वापि विलासी(सि)नां तदालयम् । पावके पूषके वाथ सत्यके वा महेन्द्रके ॥२६॥ सखीनां च गृहं कुर्यात्तत्रैवानुचरालयम् । द्वारस्य दक्षिणे पार्श्वे रक्षकारालयं भवेत् ॥३०॥ तत्रैव परिवारार्थ योधकानां तथालयम् । गृहत्तते यमे चैव महिषा(ज्या)यालयं भवेत् ॥३१॥ गन्धर्वे भृङ्गराजे चन्द्रदृष्टानास्यत्(नां च) तदालयम् । वृषे वा नैर्मृते वापि दिनादीनां गृहं भवेत् ॥ ३२ ॥ वरुष पुष्पदन्ते वा युवराजगृहं भवेत् । महेन्द्रे पुष्पदन्ते वा मुख्ये वाथ गृहक्षते ॥३३॥ सर्वषामपि वर्णानां द्वारं कुर्याद् विशेषतः । भूपानां मुख्यके द्वार विना चोक्तं पुरातनैः ॥३४॥ पावके वानिले वापि धान्यकर्णनमण्डपम् । नागे वा मुख्यके वापि धान्यागारं तु कल्पयेत् ॥ ३५ ॥ शोषे वा चासुरे वापि पुष्पमण्डपं संस्थितम् । चतुर्दितु चतुष्कोणे सोपाया(न)स्थानमीरितम् ॥ ३६ ॥ वायवे चाथ भलाटे नागे वा सर्वहर्म्यके । कुर्यान्नृत्ताङ्गनानां च नृत्तयोग्यं तु मण्डपम् ॥ ३७॥ रोगस्य च पदे चैव कुक्कुटावासयोग्यकम् । दौवारिके च सुप्रीवे मेषवासं च कारयेत् ॥ ३८॥ एकं वाथ द्विसालं वा त्रिसालं वार्ध(तुर्य)मित्तिकम् । भूपानां पञ्चसालान्तं द्वित्रिसाखमथापि वा ॥३६॥