________________
२६०
मानसारे
प्रन्तः सालपदे रोगे नित्यान्त ( चैन ) मण्डपं न्यसेत् । मुख्ये (ख्यं) वासं तु सर्वेषां चोक्तवत्कारयेत्सुधीः ॥ ४० ॥ सर्वेषामपि वर्णानां स्था (स्ना ) नयोग्यं द्विजन्मनाम् । क्षत्रियादित्रयाणां च उ ( तु चो) क्तरीत्या प्रयोजयेत् ॥ ४१ ॥ सर्वेषां देवतास्थानं मुख्यं वा कल्पयेत्सुधीः ।
प्रधाने (नं) सा (चोपवासं च धनार्थाय भवेदिह ॥ ४२ ॥ कर्तुश्चित्तवशाद्वापि सर्वेषां तु प्रधानकम् । अन्यत्सलं तु सर्वेषां चैकपचालयक्रमात् ॥ ४३ ॥ अन्यत्सालं तु सर्वेषामालयार्थं द्विपतकम्। भित्तिमानं तु सर्वेषां प्राकारस्योक्तवत्कुरु ॥ ४४ ॥ द्वारे च द्वारशालादिगोपुरान्तः क्रमान्न्यसेत् । वैश्यशूद्रगृहे द्वारं चैकादित्रितलान्तकम् ॥ ४५ ॥ कुर्यात्तु शूद्र जातीनां द्वारं शालावसानकम् । मुख्यादि चो (सोपवासैश्च सर्व प्रागुक्तवन्नयेत् ॥ ४६ ॥ यत्रैव कर्तुर्धिष्णावशता विमानम्
1
सद्मादिकं सकल सीमविहारकुव्यम् ।
कोशा दिनीतिहयमन्दिरदन्विशाला
कुर्यात्ततोऽन्यदखिलं नगरं च शास्त्रात् ॥ ४७ ॥
[प्रध्यायः ३६ ]
इति मानसारे वास्तुशास्त्र गृहमानस्थानविधानं नाम षट्त्रिंशेाऽध्यायः ॥
80
84
88
92
96