________________
२५८
मानसारे वरुणे च शशस्थाने वैश्यानां वासयोग्यकम । नैत्ये सोमे (चे)शे च शूद्रायां वासयोग्यकम् ॥ १२ ॥ पनिलानलदेशे च सर्वेषां वासयोग्यकम् उत्तरेशानपर्जन्ये सर्वेषां पचनालयम् ॥ १३॥ अन्तरिक्षामिपूषा(ष्णि) च वर्णानां कूपयोग्यकम् । याम्ये च नैते वापि सर्वेषां भोजनालयम् ॥१४॥ वायव्ये विप्रजातीनां देवताभोजनालयम् प्रदिते (ती) चेशकोणे वा पितृ(त्रया)यां देवतार्चनम् ॥ १५॥ भलाटे च मृगे चैव द्विजानां गृहणीगृहम् । गन्धर्वे भृगराजे वा मृगे चैवान्तरितके ॥१६॥ सर्वेषां भूपतीनां च महिष्यावासयोग्यकम् । पुष्पदन्ते स्वकर्षे वा चायुधानां च मण्डप(योग्यक)म् ॥ १७ ।। वरुणे चासुरे नागे मुख्य पर्जन्यसोमके। वैश्यानां तु परेषां तु गृहिण्यावासयोग्यकम् ॥ १८ ।। सत्यके चान्तरिक्ष वा सर्वेषां शयनालयम् । शेषे चैवासुरे चैव वरुणे वासनाखयम् ॥१६॥ सोमे मृगपदे चैव हेमरत्नस्य वासकम् । नागे चैव द्विजानां च हुत(होम)कालयं भवत् ॥२०॥ प्रदिवे(1) सर्वजातीनां सपनार्थालयं भवेत तत्रैव सन्धिकार्यार्थ तद्वाझे चरणालयम् ॥२१॥ यमे च नैऋते वापि सूतकारालयं भवेत् । इन्द्रे चैव महेन्द्रे वा दासानामालयं तथा ॥२२ ।। वतश्चेशानबाझे तु चतुर्धा(चानुच)रालयं भवेत् । पूषे(ष्णि) च वितते(थे) चैव धेनोरालयमेव च ॥२३॥ , द्वारस्य वामपावें तु वाहनानां तहालयम् । प्रापश्चैवापवत्सा(त्स्ये) च बालालोकनमण्डपम् ॥२४॥ ब्रह्मास्थानसमीपे तु विवाहाद्यर्थमण्डपम् । इन्द्रे च इन्द्रराजे च वनाच्छादनमण्डपम् ॥२५ ।।