________________
गृहमानस्थानविधानम् द्विजातीनां च सर्वेषां वर्णनां वासयोग्यकम् । गृहाणां मानविन्यासं स्थानं च वक्ष्यते धुना ॥१॥ प्रामे च नगरे वापि पत्तने खेटके पिवा। वने वा चाश्रमे वापि नद्यद्रे (द्रयो)श्च पार्श्व के ॥२॥ तेषां तु वेश्मनः स्थानं कल्पयेच्छिल्पि(ल्प)वित्तमः । द्वित्रिदण्ड समारभ्य द्विद्विदण्डविवर्धनात् ॥३॥ पत्यकपतिदण्डान्तं पञ्चधा विपुलं भवेत् । पादाधिकमथाध्यध पादानं द्विगुणं तु वा ॥४॥ द्विगुणान्तं गृहायाम गृहचा(स्य)न्तरम(ताराद)धिकम् । दीर्घ(देय) पादाधिकं दीर्घमन्त(चार्धाधिक)पादत्रयान्तकम् ॥ ५॥ गृहायामसमं(त्रयं) वापि तस्मात्पादाधिकं तु वा । प्रर्धाधिक(क) त्रिपादं चाधिक्यं वा त्रि(चतुर)गुणान्तकम् ॥६॥ गृहतारायतं ह्येवं विस्तारं ग्रहतारतन । गृहायामविशाले तु परमशायिकपदं न्यसेत् ॥७॥ ब्रह्मस्थानं विनान्येषां सर्वेषां वासयोग्यकम् । मार्यो विवस्वान मित्रं [च] भूधरश्च चतुष्टये ॥८॥ द्विजानां मुख्यहयं स्यात्कल्पयेत्तच्छ्रियावहम् । विवश्चि(स्व)ति पदे चैव मित्रके भूधरे तथा ॥६॥ भूपाना मुख्यवासं स्यादन्यजातेरयोग्यकम् । मापाद्यष्टामरदेशे वर्णानां वासयोग्यकम् ।। १०॥ इन्द्रादिषु चतुर्दिक्षु द्विजानां वासयोग्यकम् । यमे च वारुणे चैव भूपाना मुख्यवासकम् ॥११॥
32