________________
२५४
मानसारे
विशाले द्वादशांश स्मात्तस्माद् द्वंशाधिकायतम् ।
चतुः षड्माण (ग) विस्तारमा ( रा ) यामं [च] दक्षिणोत्तरे ।। १६६ ।। एकशालाकृतिं कुर्यात्पञ्चभूमि त्रिभूमिकम् ।
मनलानिलको तु कुर्यात्तत्तु त्रिभूमिकम् ॥ १६७ ॥ पश्चिमे द्विचतुर्भागशालापञ्चतलान्वितम्
पूर्वे च द्विचतुर्भागं मण्डपं चैकभूमिकम् ॥ १६८ ॥ ईशाने चैकभूमिं (मिः स्यात्प्रासादवदलङ्कृतम् । नैर्ऋत्ये सप्तभूमि (मिः स्यात्कूटकोष्ठादि पूर्ववत् ॥ १६६ ॥ तन्मध्ये भद्रसंयुक्तं भागैकायामनिर्गमम् ।
एकेन कर्यकूटं स्याचतुष्कोणे तु मण्डितम् ॥ १७० ॥ कूटे च भद्रयोर्मध्ये हारांशं मध्यमेन तु । अधिष्ठानादिवर्गाढ्यं कर्णहम्र्म्यादिमण्डितम् ॥ १७१ ।। प्रासादवदलङ्कृत्य शेषं प्रागुक्तवन्नयेत् ।
एकशाला द्विपार्श्वे च भद्रशैिर्वेदभागिकम् ॥ १७२ ॥ पृष्ठे च द्विचतुर्भागं भद्रं कुर्याद्विचक्षणः । अथवा चाष्टभागेन भद्रं युक्त्या प्रयोजयेत् ॥ १७३ ॥ षड्भागांशमेवं वा शाखाकारं तु पृष्ठतः ।
चतुःषड्भागविस्तारमा (रा)यामं [च] मुखवा ( द्वा) रणम् ॥ १७४॥ पुरतः पार्श्वयोश्चैव चैकभागेनालिन्दकम् ।
द्विचतुर्भाग (गं) तन्मध्ये मण्डपाकार (रं) कल्पयेत् ।। १७५ ।। मुखे सोपानसंयुतं सर्वालङ्कारसंयुतम् ।
युक्त्या भद्रं तु सर्वाङ्गं चोर्ध्वं चोर्ध्वतलान्वितम् ॥ १७६ ॥ पादोर्ध्वं पादसंयुक्तं भिन्त्यूर्ध्वं भित्तिसंयुतम् । पादोर्ध्वं भित्तियुक्तं चेत्सर्वदेोषं समुद्भवेत् ॥ १७७ ॥ कुड्यस्योपरि पादैश्च कृत्वा सर्वं शुभावहम् । सर्वावयवसंयुक्तं सर्वालङ्कारसंयुतम् ॥ १७८ ॥ एवं सप्तवलं वर्धमानं शेषं तु पूर्ववत् । विस्तारे मनुभागे (गं) तु षेोडशांश वदायतम् ।। १७६ ॥
[अध्यायः
332
336
340
344
348
352
356