________________
शालाविधानम् सनन्दविंशत्र्यंशं च हस्तान्त रुद्रसंख्यया। पतत्तु विस्तृत प्रोक्तं द्विगुणान् पूर्ववदिति ॥ १५२ ॥ मायाममिति तत्प्रोक्तमुत्सेधं पूर्ववद् भवेत् । विस्तारे दशमागे(ग) तु द्वादशांशं तथायवम् ॥ १५३ ।। द्विचतुर्भागविस्तारमा(रा)यामं [च] मध्यमाङ्गणम् । सद्वाह्ये परितोऽलिन्दं द्वयांशेन मे(वै)व वा ॥ १५४ ॥ सद्वार्थी परितः शालाविस्तारं तद्वि(द्वि)मागिकम् । वत्समेनावृतालिन्दं तदहिः परिकल्पयेत् ॥ १५५ ॥ ईशे चैकतलं कुर्यादाग्नेये द्वितलं भवेत् । वायव्ये त्रितलं कुर्यान्नत्ये पञ्चभूमिकम् ।। १५६ ॥ याम्ये च पश्चिमे चैव दण्डकं च चतुःस्थ(स्त)खम् । पूर्वे च चोत्तरे मध्ये दण्डकं चैकभूमिकम् ॥ १५७ ॥ चतुष्कोणे द्विभागेन गृहविस्तारदीर्घ (दैर्घ्य)कम् । पूर्वे च द्विद्विभागेन मुखमण्डपमीरितम् ॥१५८॥ पश्चिमे तत्समं कुर्यान्मण्डपं तत्प्रकल्पयेत् । दक्षिणे चोत्तरे मध्ये द्विचतुर्भागेन मण्डपम् ॥ १५६ । शेष तु चावृतालिन्दं कुर्यात्तत्पश्चरान्वितम् । द्विनतुर्भागविस्तारं पार्श्वयोर्भसंयुतम् ॥ १६०॥ पृष्ठे च (मे)कभागेन भद्रं कुर्याद् विचक्षणः । पूर्वे च द्विचतुर्भागं मुखद्वारं तु सयुतम् ॥ १६१ ।। सर्वेषां भद्रपार्वे तु पूर्वे चैकेनालिन्दकम् । सोपपीठमधिष्ठानं पादादीन(दि)प्रस्तरान्वितम् ॥ १६२॥ कहादिवर्गाढ्यं चान्तरं प्रस्तरान्वितम् । कूटकोष्ठादिसर्वाङ्गं नासिकापश्चरान्वितम् ॥ १३ ॥ कुम्भकुम्भतले(लतै)युक्तं तोरणादिविभूषितम् । सर्वेषां मकरालाना(ननैः) सर्वालङ्कारसंयुतम् ।। १६४ ॥ शिरोप्रोवशिखायुक्तं नासिकावेदिकान्वितम् । एवं तु वर्धमान स्यात् क्षत्रियाणां तु योग्यकम् ॥ १६५॥