________________
२४३
192
196
200
शालाविधानम् यथादितु स्थितादित्यो(त्यस्) तदितु चरणायतम् । तत्पृथ्वीशिरः क्षिप्यं चाधो वामकं तथा ॥६६॥ तद्दक्षिणभुजं चोर्ध्वं पुरुषं शयनं स्मृतम् । गृहायामे तथारामे(च विस्तारे) गृहवाराह(तारं विशालकम् ॥१७॥ गृहायामेषु भागे तु पादाद् वेदांश(शं) चोर्ध्वके [च]। एकांशं कुतिदेशं स्याद् वेदान्तं मध्यदेशके ॥१८॥ मंढादि तलसीमान्तं वेदांशं पाददीर्घ(दैय)कम् । मेढादूर्ध्वं च वेदान्तमेकांशं तत् शि(च्छि)रायतम MEET मूर्धाद(ोड)ध:(धश्च) शिवांशे तु हृदयस्थानमीरितम् । हृदयात्कुत्तियो(क्ष्यो)मध्ये [च] मध्यकार्य प्रकथ्यते ॥१०॥ विस्तारमध्यसूत्रं तु मुखद्वारवशाद् विदुः ।। ज्ञापयेद् वास्तुपुरुषं विन्यसेत् सर्वहhके ॥१०१॥ एतत्तु दण्डकं प्रोक्तं स्वस्तिकं वक्ष्यतेऽधुना। . विस्तारे वसुभागे तु दशभागायतं भवेत् ॥ १०२॥ पूर्वोक्तालङ्कतं ज्ञात्वा भागमानेन विन्यसेत् ।। पञ्चसप्तांश(शं) विस्तारमा(ग)यामं [च] पुरतोऽङ्गणम् ॥१०३॥ तत्पाद्येऽलिन्द्र(न्द)मंशेन स्वस्तिकाकारसंयुतम् । तद्विपार्वे द्विशालाश्च द्विभागेन विशालता ॥ १०४ ॥ तद्द्वयोर्मध्यके वासं द्विद्विभागेन नभृते । वंशानां चाप्रयोदेशे द्विद्विभागेन कोष्ठकम् ॥ १०५ ॥ तद्वहिश्वावृताशेन कुर्याद् भूवृतालिन्दकम् । एकदि(यं)शेन भद्रं स्यात्कणेषु कर्करीकृतम् ॥१०६॥ द्विशालामे तु वत्रं स्यादेकदि(य)शेन निर्गमम् । मङ्गणे प्रतिपार्श्वे तु कुड्यद्वारं तु संयुतम् ॥ १०७॥ शालायामे विशाले वा द्वारं कुर्यात्पू(च पूर्ववत् । एकानेकतलोपेतं नैर्मृत्ये तु विचक्षणः ॥१०८॥ एवं तु स्वस्तिकं प्रोक्तं पूर्वोक्तानां तु योग्यकम् । दशभागं विशाले तु चायामं द्वादशांशकम् ॥ १०॥
204
208
212
216
31