________________
136
140
144
शालाविधानम् प्रथवा शाल(ला)कूटादीन् विनालिन्देन भूषितम् । मध्यसूत्रं तु(त्रस्य) वामे तु द्वारं कुर्याद्विचक्षणः ॥६॥ केचिच्छाखा वि(द्वि)मागं स्यात्पुरतोऽलिन्द भागतः । यथेष्टदियवासयुक्तं शेषं प्रागुक्तवायेत् ॥६६॥ एवतु दण्डकं प्रोक्तं देवभूसुरभूपतेः। . तदेव परितोऽलिन्द विना सर्व जनाईकम् ॥ ७० ॥ तस्माद् द्वि(य)शाधिकायामं विस्तार पूर्ववद् भवेत् । वंशमूलाप्रयोर्वासं चतुर्भागेन कारयेत् ॥१॥ तद्वयोर्मध्यरङ्ग स्थाचतुर्भागेन योजयेत् । पुरतः प्रततोऽलिन्दं ततश्चैकद्विभागिकम् ।। ७२ ॥ शेषं तु पूर्ववत्कुर्याद् दण्डकं सर्वजाति(ती)नाम् । पञ्चसप्तांशविस्तारमा(रा)याम [च] तत्प्रकल्पयेत् ॥ ७३ ॥ मध्ये पञ्चाशकं वापि पार्श्वयोििद्वभागतः । कुर्यान्मण्डपं शेषं च पुरतः पृष्ठ[तोऽ]लिन्दकम् ॥ ७४॥ तत्तद्वाह्यावृतांशेन द्वारं भद्रं द्विभागिकम् । कूटकोष्ठादिसर्वाङ्गं प्रासादवदलङ्कतम् ॥ ७५ ॥ एवं तु दण्डकं प्रोक्तं देवानां वासयोग्यकम् । षड्भक्तिविस्तृतायाममष्टभागेन योजयेत् ॥ ७६ ॥ त्रिचतुळशकं वापि मध्ये रङ्गं प्रकल्पयेत् । पृष्ठतोऽलिन्दकं कुर्यादेकांशेन मे(चे)व वा ॥७॥ पुरताऽलिन्द्र(न्द) भागं स्याद्वासयुग्म(ग्म) युगांशकम् । वंशमूलाप्रयोसिं मध्ये रङ्गं न्यसेद् बुधः ।।७८ ॥ प्रथवा तचतुष्कर्णे वासं तं तं द्विभागतः । प्रथवा द्विललाटे च निवासत्रयमेव च ।। ७६ ।। परितो द्वा वा)रमेकांशं कुर्याद् झंशेन मे(च)व च । मध्यसूत्रात् तु(त्रस्य) वामे तु द्वारं कुर्याद् विचक्षणः ॥८॥ एकानेकतलोपेतं प्रासादवदलङ्कतम् । एतत्तु दण्डकं प्रोक्तं सर्वजात्यहकं भवेत् ॥८१॥
148
162
166
160.