________________
२४६
मानसारे
एक (i)शेन वासं स्याद्यथामूलं तु योजयेत् । अथवा द्विद्विभागेन वासं तद्वंशमूलके ।। ५४ ।। वंशारङ्गसंयुक्तं तत्पुरे ( रा ) लिन्दं भागतः । प्रथवा मध्ये प्रतिष्ठाने त्य( तू `क्तवासद्वयं न्यसेत् ॥ ५५ ॥ अन्तर्वासं बहिर्वासं द्वार (रं) मध्यं (ध्ये) तु वामके । अथवा चायतार्थेन मध्ये कुड्यं च कल्पयेत् ॥ ५६ ॥ द्वारं तत्कुड्यपार्श्वे तु वासमेत (कं) द्वयं भवेत् ' तत्तु दण्डकं प्राक्तंशे प्रागुक्तवन्नयेत् ॥ ५७ ॥ सर्वेषा (वसा) मपि जातीनां सर्वकामार्थयोग्यकम् । द्विचतुर्भाग विस्तारमा ( रा ) यामं [च] तत्प्रकल्पयेत् ॥ ५८ ॥ मुखशाला विशाला च चतुर्भागं तथायतम् ।
पुरतोलिन्द्र (द) मेकांशं भित्तिं कुर्यात्समन्ततः ॥ ५६ ॥ मूला द्विद्विभागेन वासरङ्गं च कल्पयेत् । अथवा चैकद्विभागेन वास (सं) वंशाप्रमूलयोः ॥ ६० ॥ कुर्यात्तु मध्यमे रङ्गं पृष्ठे पार्श्वे च भित्तिकम् । पूर्वे च स्तम्भसंयुक्तं मध्ये स्तम्भान्परित्यजेत् ॥ ६१ ॥ परिता द्वारमेकांशं दण्डकं परिकीर्तितम् । शेषं प्रागुक्तवत्कुर्यात्सर्वजात्यार्हकं भवेत् ॥ ६२ ॥ चतुः षड्भागविस्तारं श्रा ( रा ) यामं [च] तत्प्रकल्पयेत् । ये च द्विचतुर्भागं शाला [या] विस्तारमायतम् ॥ ६३ ॥ एकद्विद्विविभागं वा (द्वि)वासं वा चैकवासयुक् । वंशमूलाप्रयोर्वा वंशमूलैकवासकम् ॥ ६४ ॥ दहिः पुरतोऽलिन्दमेकभागेन कारयेत् । तद्बहिः परितः कुड्यं युक्तं वाह्रियुतं तु वा ।। ६५ ॥ डिभित्तियुक्तं चेत्परितोऽशेनालिन्दकम् ।
एक (i)शेन भद्रं स्यान्निर्गमं विस्तृतं भवेत् ॥ ६६ ॥ चतुर्दिक् (तु) भद्रसंयुक्तं द्विललाटं तु पूर्ववत् । द्वितलं कर्यहर्म्यादि प्रासादवदलङ्कृतम् ।। ६७ ।।
[चध्यायः
108
112
116
120
124
128
132