________________
३५]
शाखाविधानम् मण्डलेशादिभूपानां दण्डकादिस्वस्तिकान्तकम् । केचित्रिविधमौलीनां सर्वशाला च योग्यकम्(का)॥४०॥ दण्डकादिक्रमात् शा(च्छा)लाविन्यासं वक्ष्यतेऽधुना । पूर्वे च पश्चिमे शाला प्रत्यक् प्रागालयं तु वा ॥४१॥ उत्तरे याम्यशालायां सौम्यशाला(म्यालय) च दक्षिणे। प्रतवाथ चतुर्दितु तत्तच्छाला प्रकारयेत् ॥ ४२ ॥ पूर्वशाला च ए(तु चै)कं च तद्द्वारं पश्चिमे भवेत् । दण्डकं दक्षिणे शाला तद्द्वारं चोत्तरे(रस्यां) दिशि ॥ ४३॥ एकशाला यथाप्रत्यक् तद्द्वारं प्रारदिशस्(दिशि) तथा। उदक दण्डकशालानां कुर्याद् द्वारं तु दक्षिणे ॥४४॥ विस्तारमेकमार्ग वा चेष्टभागा(गमा)यते(त) तथा । यथेष्टदेशे तत्कुर्यात् शा(च्छा)लालिन्द्र(न्द)मुदीरितम् ॥४५॥ इष्टदीर्घितपादं स्यात्कुड्य(ड्यं) पादसमन्वितम् । पुरतः पादयुक्तं वा पृष्ठे कुड्यं प्रकारयेत् ॥ ४६ ॥ प्राकारान्तर्बहिर्वापि वेदिकायै (दिभिरलङ्कृतम् । एतत्तु दण्डकं प्रोक्तं प्राकारादिवमाय(समायु)तम् ॥४७॥ विस्तारे चैकभागेन द्विभक्त्यायाममीरितम् । ललाटे द्वितय(ल)स्योर्ध्वं दण्डखण्डितवद् भवेत् ॥ ४॥ पण्डिशालाख्यकं प्रोक्तमेतत्सर्वजनाईकम् । सत्पुरे(रोड)लिन्द्र(न्द)संयुक्तं भिन्दशाला प्रकीर्तितम् (वा) ॥४६॥ विस्तारे झंशकं कृत्वायामे चैवं त्रिभागिकम् । मूले शाला विशालं(ला) स्यात्पुरतो वारमंशकम् ॥ ५० ॥ मुखशालावि(द्वि)नेत्रे (त्रा) च वासमेकैकभागिकम् । परितो वारमेकांशं द्विललाटं तु पूर्ववत् ॥५१॥ मध्ये द्वारं तु संयुक्तं मुखे चैकतलान्वितम् । एवं तु देवतायोग्यं दण्डकान्तमुदीरितम ॥५२॥ द्विचतुर्भागविस्तारमा(रा)यामं तत्प्रकल्पयेत् । शालाविशालतांशेन तत्पूर्वेऽलिन्द्र(न्द)मंशकम् ॥ ५३॥
96