________________
२४४
मानसारे
तदेवान्यासु सर्वेषु (र्वासु) दिनु शालां विना न्यसेत् । पूर्वे वा दक्षिणे वापि पूर्वे वा चेोत्तरेऽपिवा ॥ २६ ॥ पश्चिमे चोत्तरे वापि स्वस्तिकं च विनाशकम् । पूर्वे च दक्षिणे स्यश्च (चैव) याम्ये प्रत्यक् तथेोत्तरे ॥ २७ ॥ शालासंयोगमेवं स्यान्मौलिकं तदुदीरितम् । पूर्वैश्च (वें) चोत्तरे प्रत्यगुदक् पूर्वे च दक्षिणे ॥ २८ ॥ अज्ञानेन त्रिशालेषु योगं चेत्सर्वदोषदम् । सर्वेषां गणिकादीनां शाला स्वस्तिकमेव च ॥ २६ ॥ अध्यक्षायां तु सर्वेषां कल्पयेन्मौलिकाख्यकम् । सर्वेषा (र्वासामपि शालानां दण्डकादित्रयान्तकम् ॥ ३० ॥ शालानां प्रमुख कुर्याद् द्वारं कुड्यादि चोक्तवत् । चतुर्दिक्षु चतुःशाला संयुक्तं तच्चतुर्मुखम् ॥ ३१ ॥ तदेव पुरता देशे मौल्यन्तरालसंयुतम् । तदेव बहुभद्रं स्यात्सर्वतोभद्रमीरितम् ॥ ३२ ॥ दण्डकादि चतुःशाला संयोग्यं वर्धमानकम् । दण्डकं च पृथक्शाला चैकशालापर्याख्यकम् ।। ३३ ।। खाङ्गलं स्वास्तिकं चैव द्विशाला च (लाया) पर्याख्यकम् । मौलिकं दीप (शूर्प) कं चैव त्रिशाला च परिकीर्तिता ॥ ३४ ॥ चतुर्मुखं चतुःशाला चैवमुक्तानि पण्डितैः ।
सप्तशाला विशेषेण सर्वतोभद्रमीरितम् ॥ ३५ ॥
दशशाला च सर्वेषां वर्धमानमुदीरितम् । एकशालानसन्धिश्च द्विशाला चैकसन्धिकम् (का) ।। ३६ ।। त्रिशाला च द्विसन्धिः स्यात् चतुः (त्रयः ) सन्धि चतुर्मुख (तुःशाल ) म् ।
. षट्सन्धिः सप्तशाला च बहुसन्धिदशशालय ( क ) म् ॥ ३७ ॥ चतुःशाल (लं) वर्धमानान्तं कुर्यान्नु सर्वभूमिकम् । अधिराजनरेन्द्राणां सर्वतोभद्रकान्तकम् ॥ ३८ ॥ पार्ष्णि कादिच (दीनां) भूपानां दण्डकादिचतुष्टयम् । दण्डकादि त्रिशालान्तं कुर्यात्पट्टधरे तथा ॥ ३६ ॥
[ चध्यायः
52
56
60
64
68
72
76