________________
३५]
शालाविधानम् प्रथमं शान्तिकोत्सेधं द्वितीयं पौष्टिकोदयम् । तृतीयं जयदोत्तुङ्गं चतुर्थ धनदोदयम् ॥१२॥ पञ्चमं चाद्भूतोत्सेधं जन्मादिस्तूपिकान्तकम् । अन्यैस्तु सर्वशालानां भित्ति(भक्ति)मानेन विस्तृ(चीन)वम् ॥१३॥ मादिभूमे(म्या)श्व पादादिषट्सप्ताष्टनवांशकम् । दशांशेन विहीनं स्यादूर्ध्व चोर्ध्वतलोदयम् ॥१४॥ प्रध्यध प्रस्तरोत्सेधं चार्धेनैवोर्ध्ववेदिका । तवयं प्रीवतुङ्गं स्याद् ग्रोवतुङ्गद्वयं शिरः ॥१५॥ मस्तका शिखोत्तुङ्गमुत्सेधमिति कथ्यते । देवानां भूसुराणां च भूपानां वैश्यशूद्रयोः ॥१६॥ तपस्विनामाश्रमिणां च हस्त्यश्वरथयौधिनाम् । वौद्धानां यागहोमादिशिल्पिनां गणिकादि(दी)नाम् ॥ १७ ॥ एकशाला(लं) द्विशाला(लं) च त्रिशालाश्व(लं च) चतुर्मुखम् । पूर्वोक्ततैत(ति)लानां च द्विजात्यादिषु योग्यकम् ॥१८॥ एकानेकतलान्तं स्याचलिहादिमण्डितम् । प्रासादवदलङ्कत्य देवभूसुरभूपतेः ॥१६॥ चूलिहय॑ विना कुर्याद् वैश्यशूद्रादिजन्मनाम् । शालायाः परितोऽलिन्द्र(न्दं) पृष्ठतो भद्रसंयुतम् ॥२०॥ पुरतो मण्डपोपे सर्वालङ्कारसंयुतम् । एवं तु मानुषाणां च तैत(ति)लानां च कारयेत् ।। २१ ॥ शालामध्ये च देवानां वासं कुर्याद् विचक्षणः । शालायाः पार्श्वतो वासं द्विजात्यादिषु सर्वशः ।। २२ ।। शालायामे तु वासं च वंशमूले तु योजयेत् । गृहिणीनां तु शालायां सन्यवासं प्रकल्पयेत् ॥२३॥ उक्तानां सर्वजातीनां दण्डकं तु चतुर्दिशि । पूर्वे वा दक्षिणे वापि पश्चिमे दण्डकं न्यसेत् ॥२४॥ एवं चामात्ययोग्यं स्यानोदरद्वारं महीभृताम् । इतिखे पश्चिमे शालायुक्तं स्वतिकमेव च ॥२५॥