________________
३४)
564
मण्डपविधानम्
२४१ एवं तु सर्वतोभद्रं सर्वालङ्कारसंयुतम् । वक्ष्यते विधिना सम्यक् सर्वप्रामार्थमण्डपम् ॥२७८ ।।
566 समानं वायतायामं युग्मं वायुग्मभित्तिकम् । लुपां वा प्रस्तराङ्ग वा तप्ल(ल्पा)च्छादनमेव च ।। २७६ ॥ लुपायुक्तं तु सर्वाङ्गं सभा चेति प्रकीर्तितम् (ता)। परितः प्रस्तरं मध्ये चोर्चे कूटं तु मण्डपम् ।। २८०॥
660 प्रस्तराङ्गं तु सर्वाङ्गं मण्डपं चेति कथ्यते । मण्डपं वा सभां वापि प्रामयोग्यं यथादिशि ॥ २८१ ।। नगरे च यथाकारं द्विगुणाध्यर्धकायतम् । पादूनं द्विगुणं वापि द्विगुणं पत्तने न्यसेत् ।। २८२ ॥ विस्तारद्विगुणायामं शूद्रखर्बटयोग्यकम् । अधिष्ठानाधलङ्कारं सर्व प्रागुक्तवन्नयेत् ॥२८३ ॥ यात्रामार्गेषु सर्वेषां कारयेन्मण्डपं सुधीः । प्रपाङ्गं मण्डपं वापि यथायुक्त्या प्रयोजयत् ।। २८४ ।। ब्रह्मक्षत्रियवैश्यशूद्रचतुर्वणे यदुक्तं तु तद् देवानां भवति त्वनन्तरान्तरं शूविशा(शैः) क्षत्रियैः । तद्विप्रैर्भवति त्वनन्तरान्तरं क्षत्रैर्विशा(शैः) शूद्रकम्(कैः) राजानो(ज्ञः)भवति त्वनन्तरान्तरं शूट्रैर्विशां(शा) वश्यकैः(क्षत्रियैः) ॥२८॥ 572 शूद्रैर्युक्तं मण्डपं शूद्रकाणाम्
प्रत्येषां तजातियोग्यं तु कुर्यात् । चोक्त(चेत्त)द्विप्रजात्यादि चोक्तम्
कर्ता भर्ता सर्वथा नाशमीयात् ।। २८६ ॥
568
576
इति मानसारे वास्तुशास्त्रे मण्डपविधानं नाम चतुस्त्रिशोध्यायः ॥
30