________________
२४०
मानसारे
[अध्यायः
528
532
536
540
खस्मादेव द्विमागेन निर्गमं भद्रविस्तृतम् । मण्यपे वंशमूलामे त्रिभागं भद्रविशालकम् ॥ २६४ ॥ निर्गमे च द्विभागं स्याद् भद्रावृतवारकम् । मण्डपे चोर्ध्वकूटं स्यात् शा(च्छा)लाकारं तु योजयेत् ॥ २६५ ।। प्रष्टवक्रसमायुक्तं कर्णेषु कर्करीकृतम् । मध्यसूत्रं तु(त्रस्य) वामे तु दारं कुर्याद् विचक्षणः ।। २६६ ।। श्रीविशालमिति प्रोक्तं महिण्यावासमण्डपम् । चतुःषड्भागविस्तारं मा(रा)याम [च] मण्डपं भवेत् ॥ २६७ ॥ द्विद्विमागेन संयुक्तं तन्मध्ये चाङ्गणं भवेत् । द्विचतुर्भागविस्तारं वासमायाममीरितम् ।। २६८ ॥ वत्पुरे पृष्ठभागात चैकग्रंशेन कारयेत् । वहिरिमेकेन परितः कूटाकृतिस्तथा ॥२६६ ।। वंशमूलाप्रयोर्वास [दद्वारं वासमध्यमे । मण्डपे सूत्रमध्यं तु (मध्यसूत्रस्य) वामे द्वारं तथायते ॥२७० ॥ एवं सोमार्कनामस्य(स्यात्) वैश्यानां च (ब्राह्मणानां) पचनालयम् । यदेव(तब) विस्तारदी(दैयेगेषु द्विद्विभागेन वर्धनात् ॥ २७१ ।। अन्यत् चत्रियसर्वेषां युगभागेन मण्डपम् । विस्तारं द्विगुणान्तं स्याद् द्विदिमागेन वर्धनात् ।। २७२ ।। यबा तद्विनियोगार्थ मण्डपं वैश्यशूद्रयोः । वत्तचित्तवशात्सर्वमष्टदिग्भागभित्तिकम् ।। २७३॥ देवानां भूसुराख च मण्डपं जातिरूपकम् । भूपानां मण्डपे(पं) सर्वे(4) छन्दरूपमितीरितम् ।। २७४ ।। वैश्यकानां तु सर्वेषां विकल्पं चेति कथ्यते । शूद्राणां मण्डपं सर्वमाभासमिति कीर्तितम् ।। २७५ ।। केचिद् भद्रविशेषेण जातिरुक्ता पुरावनैः। द्विवक्रं दण्डकं प्रोक्तं त्रिवत्रं स्वस्तिकं तथा ॥ २७६ ॥ त्रिवः खाङ्गलाकारं नन्यावर्त चतुर्मुखम् । षण्मुखं मौलिकं प्रोक्तं मण्डप चाष्टवक्रयुक् ।। २७७ ॥
644
548
552