________________
३४
२३६
500
504
508
मण्डपविधानम् प्रस्तरोर्चे विशेषाऽस्ति चूली(लि)हादिमण्डितम् । मध्यरङ्गालकूटं स्यात् ५()कद्वित्रितलं तु वा ।। २५० ।। रत्नप्रासादरङ्ग तु प्रागुक्तवदलङ्कतम् । तन्मुखे च प्रपा कुर्याद् युक्त्यायामं तु कल्पयंत् ।। २५१ ।। नाटका(क)विस्तरं पञ्चपञ्चभागन योजयेत् । पार्श्वे चैव त्रिभागंन बहुपादसमन्वितम् ।। २५२ ।। सोपीठाङघिसंयुक्तं प्रस्तरं च प्रपाङ्गकम् । प्रमुखे भद्रसोपानं कर्णे लाङ्गलभित्तिकम् ।। २५३ ।। शिले वा दारुजे वापि मिश्रद्रव्येण कारयेत् । शेषं तु देवतास्थानं मण्डपोक्तवदाचरत् ॥ २५४ ॥ एवमास्थानयाग्यं स्यात्ततखराक्षरयोग्यकम् । चतुःषड्भागविस्तारमा(रा)यामं [च तत्प्रकल्पयंत ॥ २५५ ।। द्विचतुर्भागविस्तारमा(रा)यामं [च] मण्डपं भवेत् । विस्ताराद् द्विभागेन वंशमूले तु वासकम् ।। २५६ ।। तदने द्वित्रिभागेन कुड्यपादसमन्वितम् । तदहिश्चावृतांशेन वारं कान्ताख्यमण्डपम् ।। २५७ ॥ एवं तु युवराजस्य लीलालोकनमण्डपम् । सर्वालङ्कारसंयुक्तं चोर्ध्वकूटसमन्वितम् ॥ २५८ ।। षडष्टांशेन विस्तारमा(रा)यामं [च] मण्डपं भवेत् । द्वित्रिभागेन वासं स्यात्रिचतुर्भागमण्डपम् ॥२५६ ।। वंशमूलाग्योर्वास तन्मध्ये मण्डपं भवेत् । तत्पुरेऽलिन्द्र(न्द)मेकांशं चेष्टदिग्गतभित्तिकम् ॥ २६०॥ मुखेऽष्टांशमायामं विस्तारं मुखवा(द्वारकम् । द्वित्रिभागेन वासं स्यात् प्र(द) मूले नियोजयत् ॥२६१ ॥ प्रथवा मूलवासैश्च द्वित्रिभागेन योजयेत् । द्विचतुर्भागविस्तारायाम मूलमण्डपम् (पं स्यात्) ॥२६२ ॥ तत्पुरे पृष्ठदेशे तु चैकैकांशेनालिन्द्र(न्द)कम् । परितः कुड्यसंयुक्तं तद्वहिर्वारमेव च ॥ २६३ ॥
512
516
520
524