________________
३४]
मण्डविधानम्
कर्णे च द्विद्विभागेन कुर्याद् वासं चतुष्टयम् । तद्बहिश्चावृतांशेन संयुक्तं भद्रालिन्दकम् ॥ २२२ ॥ मध्यसूत्रात (त्रस्य) तु वामे तु द्वारं कुर्याद् विचक्षणः । तद्बहिश्चावृतांशेन कुर्याचैव (कं) खलूरिकम् ॥ २२३ ॥ चतुष्कर्णेऽष्टनेत्रं स्याद् भद्रयुक् कर्करीकृतम् ।
अथवा वेदभागेन मध्यकोष्ठं समाश्रकम् ।। २२४ ॥
तद्बहिश्चावृतांशेन जलपादं च निन्नकम् । तद्द्बहिः परितो भागे कुर्याचैव (का) खलूरिका: (का) ।। २२५ ।। तन्मध्ये मण्डपं कुर्यात्कर्णे लाङ्गल भित्तिकम् ।
मध्यस्तम्भं त्यजेत् श (च्छ ) स्तं दिक्षु स्तम्भं त्यजेत्तुवा ॥ २२६ ॥ ऊर्ध्वकूटं (ट) समायुक्तं सर्वालङ्कारसंयुतम् ।
तद्बहिः परिता देशे यथेष्टांशप्रपाङ्गकम् ।। २२७ ।। नृपाणां भोजनार्थं स्यात्खर्वटाख्यं तु मण्डपम् । तदेव भागैकवेदांशं मध्यरङ्गं तमिष्यते ॥ २२८ ॥ तद्बाह्येत[द्]द्विभागेन मण्डपावृतमिष्यते । तद्बहिश्चावृतांशेन कुर्यात्तद्भ्रमालिन्दकम् ॥ २२६ ॥ तचतुर्दिक्षु मध्ये च स्तम्भं सर्वोपरि त्यजेत् । द्विभाग नेत्र विस्ता निर्गमं भद्रसंयुतम् ॥ २३० ॥ मध्यभद्रं तु (द्रस्य) विस्तारं निर्गमं च ( मस्य) द्विभागिकम् । चतुर्दिक्षु चतुर्द्वारं कर्णे च कर्करीकृतम् ॥ २३१ ॥ ऊर्ध्वकूटं समायुक्तं सर्वालङ्कारसंयुतम् ।
तन्मुखे तत्समांशेन विस्तारायामं कारयेत् ॥ २३२ ॥ चतुः षड्भागविस्तारायामं मण्डपाङ्गयम् (णं स्यात्) । पुरश्च पार्श्वयोश्चैव यंशेन मुखमण्डपम् ॥ २३३ ॥ द्वारं तन्मुखभद्रं स्यात्कर्णेषु कर्करीकृतम् ।
मण्डपे चाङ्गणं ज्ञात्वा विधानं विविधाननम् ॥ २३४ ॥ सर्वालङ्कारसंयुक्तं त्रातायनसमायुतम् ।
एवं तु खर्वटं प्रोक्तमभिषेकार्थमण्डपम् ।। २३५ ।।
२३७
444
448
452
456
460
464
468