________________
मानसारे
अध्याय.
416
420
424
428
तत्पुरे च द्विभागेन युक्त्या मध्ये तु चाङ्गणम् । तत्पुरे च द्विपार्श्वे च ए(तु चे)कभागेनलिन्द्र(नालिन्द)कम् ॥ २०८ ॥ तद्वष्टिश्चावृताशेन मण्डपानां तु प्रत्व)लिन्दकम् । मध्ये चाद्वा)रं तु संकल्प्य विस्तारे चाथ दैवतम् ॥२०६ ॥ तद्वित्रिभागेन विस्तारं निर्गमं भद्रसंयुतम् । एकं वाथ द्वयं वापि द्वारं च त्रयमेव च ॥ २१०॥ तद्वहिश्वावृतांशेन कुर्यादावृतालिन्दकम् । सर्वालङ्कारसंयुक्तं कर्णहादिमण्डितम् ।। २११ ।। द्रोणाख्यं मण्डपं प्रोक्तं देवारामं प्रकल्पयेत् । अथवा भूपतीनां च प्रा(तु चा)त्मार्थ यजनार्थकम् ॥ २१२ ॥ विप्राणां शुभकर्मार्थ सन्ध्यायोग्यकमण्डपम् । अथवा तपस्विनीनां च मठं वा नाटकाहक(हित)म् ।। २१३ ॥ एकभागाधिकायामं विस्तार पूर्ववत्क्रमात् । षत्रिभागाङ्गणं मध्ये परितद्विं(तो गं)शेन मण्डपम् ॥ २१४ ॥ ललाटे मण्डपे पूर्व चैकभागेनलिन्द्र(नालिन्द)कम् । एवं तु भूपहर्ये तु मखयोग्यं तु कारयेत् ॥ २१५॥ तस्मा[द्] गंशाधिकायाम विस्तारं सप्तभागिकम् । पञ्चाशं चैकपतंयश तन्मध्ये चाङ्गणं भवेत् ॥ २१६ ॥ तबा परितः कुर्यादेकभागेन वेदिकाम् । एतद् द्रोणं च भूपाचामायुधाभ्यासमण्डपम् ॥ २१७ ॥ पञ्चदशांशकं दीर्घ (दै') नेत्रत्रिभागमण्डपम् । तत्पुरेऽलिन्द्र(न्द)मेकांशं नवांशेन युताङ्गणम् ॥ २१८ ॥ तत्पावे पुरतश्चैव युगांशेन खलूरिकाः । द्रोणाल्यमण्डपं चैव मेषयुद्धार्थयोग्यकम् ॥ २१६ ॥ अष्टाष्टांशविस्तारमायाम [च] तत्र कल्पयेत् । तन्मध्ये द्विद्विभागेन कल्पयेद् विवृताङ्गणम् ॥ २२० । तबहिश्वावृतांशेन कुर्याश्चैका सलूरिका। तबहिश्च द्वयांशेन मण्डप परितस्तथा ॥ २२१ ॥
432
436
440